SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । एकोनचत्वारिंशत्तम पर्व । इत्येषां यदि सर्वदापि कुरुते निंदामलं द्वेषकाः ॥ एतैः सर्वगुणोपपत्तिपटुभिर्यातोऽपि शृंगं गिरेः । नित्यं यांति तथापि निर्जितरविर्दीप्त्या जनः संगमं ॥ १४३ ॥ इत्याचे रविषेणाचार्यप्रोक्ते पद्मचरिते जितपद्मोपाख्यानं नामाष्टत्रिंशत्तमं पर्व । अथैकोनचत्वारिंशत्तमं पर्व । अथ नानाद्रुमक्ष्मासु बहुपुष्पसुगंधिषु । लतामंडपयुक्तासु सेवितासु सुखं मृगैः ॥ १॥ देवोपनीतनिश्शेषशरीरस्थितिसाधनौ । आयातां रममाणौ तौ ससीतौ रामलक्ष्मणौ ॥ २ ॥ कचिद्विद्रुमसंकाशं रामः किशलयं लघु । गृहीत्वा कुरुते कर्ण जानक्याः साध्विति ब्रुवत् ।।३॥ सुतारौ संगतां वल्लीं कचिदारोप्य जानकीं । स्वैरं दोलयतः पार्श्ववर्तिनौ रामलक्ष्मणौ ॥ ४ ॥ द्रुमखंडे क्वचित्स्थित्वा नितांतघनपल्लवे । कथाभिः सुविदग्धाभिः कुरुतस्तद्विनोदनं ॥५॥ इयमेतदयं वल्लीपलाशं तरुरीक्ष्यतां । हारिणी हरिहारीति सीतोचे राघवं कचित् ॥ ६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003655
Book TitlePadmacharitam Part 02
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages446
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy