________________
पद्मपुराणम् ।
१५१
पंचत्रिंशत्तम पर्व । अयमन्यश्च विवशो जनैः स्वकृतभोगिभिः । न योवगम्यते यत्र न स तत्र जनोर्च्यते ॥१७२॥ न कृता मंदभागेन कस्मादभ्यागतक्रिया । तदा मयेति मेद्यापि तप्यते मानसं भृशं ॥१७३ ॥ रूपमेवमलं कांतं युष्माकमवलोकयन् । भ्रशं क्रुद्धोऽपि को नाम न ययावतिविस्मयं ॥ १७४ ॥ एवमुक्त्वा शुचा ग्रस्तं रुदंतं कपिलं गिरा । शुभयासांत्वयद्रामः सुशर्माणं च जानकी ॥१७५॥ ततो हेमघटांभोधिः किंकरै राघवाज्ञया । कपिलः श्रावकः प्रीत्या स्नापितः सह भार्यया १७६ परमं भोजितश्चान्नं वस्त्रै रत्नश्च भूषितः । सुभूरिधनमादाय जगाम निजमालयं ॥ १७७ ॥ जनानां विस्मयकरं सर्वोपकरणान्वितं । भोगं यद्यपि जातोयं तथापि सुविचक्षणः ॥ १७८ ॥ सन्मानविशिखैर्विद्धो दृष्टो गुणमहोरगैः । उपचारहतात्मासौ धृतिं न लभते द्विजः ॥ १७९ ॥ दध्यौ चाहं पुरा यत्र स्कंधन्यस्तैधभारकः । यथा शोषितदेहस्स तुषितोऽत्यंतदुर्विधः ॥१८॥ ग्रामे तत्रैव जातोऽस्मि पश्य यक्षाधिपोपमः । रामदेवप्रसादेन चिंतादुःखविवर्जितः ॥ १८१॥ आसीन्मे शीर्णपतितमनेकच्छिद्रजर्जरं । काकाद्यशुचिसंलिप्तं गृहं गोमयवर्जितं ॥ १८२ ॥ अधुना धेनुभियाप्तं बहुप्रासादसंकुलं । रामदेवप्रसादेन प्राकारपरिमंडलं ॥ १८३ ॥ हा मया पुंडरीकाक्षौ भ्रातरौ गृहमागतौ । निर्मसितौ विना दोषं तौ मृगांकनिभाननौ॥१८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org