SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम्। . ४८ एकोनत्रिंशत्तमं पर्व। दयिते क्रियते यावत्कोपो दारुणमानसे । तावत्संसारसौख्यस्य विघ्नं जानीहि शोभने ॥३८॥ विपादयितुमस्माकमात्मानपुचितं ननु । किंत्वत्र जिनचंद्राणां वारिणां नः प्रयोजनं ॥ ३९ ॥ सपत्नीभिरपि प्रीतमिति सांत्वितया तया । चक्रे शांत्युदकं मूर्धि रोमांचार्चितगात्रया ॥ ४० ॥ ततः प्रकुपितोऽवोचद्राजा कंचुकिन तकं । व्याक्षेपः क नु ते जातो वदापसद कंचुकिन्॥४१॥ ततो भयाद्विशेषेण कंपिताखिल विग्रहः । कंचुकी कथमप्यूचे क्षितिजानुशिरोंजलिः ॥ ४२ ॥ हृदयस्थापिता कृच्छादानीता वक्त्रगोचरं । ओष्ठे प्रणिहिता वर्णा व्यलीयंतेस्य भूरिशः ॥४३॥ सखत्कारं मुहुःकुर्वन् स्फुरयन्नधरं मुहुः । हृदयं संस्पृशन् कृच्छ्रादुपनीतेन पाणिना ॥ ४४ ॥ पश्चान्मस्तकभागस्थश्चंद्रांशुसितमूर्द्धजः । मंदवाताहतश्वेतचामरोपमकूर्चकः ॥ ४५ ॥ मक्षिकाच्छदनच्छातत्वक्तिरोहितकैकसः । धवलिभ्रुवलिच्छन्नशोणप्रभनिरीक्षणः ॥ ४६॥ अभिलक्ष्य शिराजालसंवेष्टितचलत्तनुः । असंपूरितपुस्ताभः कृच्छ्राद्वासोऽपि धारयन् ॥ ४७॥ हिमाहत इवात्यर्थ कपोलौ कंपयन् श्लथौ । विवक्षया मुहुर्जिह्वां स्थानानि स्खलितां नयन्॥४८॥ अप्येकाक्षरनिष्पति मन्यमानो महोत्सवं । वर्णातराभिसंधानाद्वर्णमन्यं समुच्चरन् ॥ ४९ ॥ संधानवर्जितान् वर्णान् परमश्रमकारिणः । कंटकानिव कृच्छ्रेण मुमोच परिजजेरात् ॥ ५० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003655
Book TitlePadmacharitam Part 02
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages446
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy