________________
पपुराणम् ।
३५९
त्रिपञ्चाशत्तम पर्व। एतत्तत्स्वामिनः प्रीतेर्भवता दर्शितं फलम् । भूमिगोचरदूतत्वं यत्प्राप्तोऽस्यतिनिदितम् ॥ २३६ ॥ सुकृतं दशवक्रस्य कथमाधाय पृष्ठतः । वसुधाहिंडनक्लिष्टौ भवता तौ पुरस्कृतौ ॥ २३७ ॥ पवनस्य सुतो न त्वं जातोऽस्यन्येन केनचित् । अदृष्टमकुलीनस्य निवेदयति चेष्टितम् ।। २३८ ।। चिह्नानि विटजातस्य संति नांगेषु कानिचित् । अनार्यमाचरन् किंचिज्जायते नीचगोचरः॥२३९॥ मत्ताः केसरिणोऽरण्ये श्रृगालानाश्रयन्ति किम् । नहि नीचं समासृत्य जीवन्ति कुलजा नराः २४० सर्वस्वेनापि यः पूज्यो यद्यप्यसकृदागतः । सुचिरादागतो द्रोही त्वं निग्राह्यस्तु वर्तसे ॥ २४१॥ इमैर्निगदितैः क्रोधात्प्रहस्योवाच मारुतिः । को जानाति विना पुण्यैर्निग्राह्यः को विधेरिति २४२ स्वयं दुमेतिना साद्धेमनेनासन्नमृत्युना । इतो दिनैः कतिपयैद्रेक्ष्यामः क प्रयास्यथ ॥ २४३ ॥ सौमित्रिः सह पझेन बलोत्तुंगः समापतत् । न मेघ इव संरोद्धं नगैः शक्यो भवेन्नृपैः ॥२४४॥ अतृप्तः परमाहारैः कामिकैरमृतोपमैः । याति कश्चिद्यथा नाशमेकेन विषबिंदुना ॥ २४५ ॥ अतृप्तः स्त्रीसहस्रोधैरिंधनैरिव पावकः । परस्त्रीतृष्णया सोऽयं विनाशं क्षिप्रमेष्यति ॥ २४६॥ या येन भाविता बुद्धिः शुभाशुभगता दृढम् । न सा शक्याऽन्यथाकत्तुं पुरंदरसमैरपि ।।२४७॥ निरर्थकं प्रियशतैर्दुमैतौ दीयते मतिः । नूनं विहितमस्यैताद्विहितेन हतो हतः॥ २४८ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org