________________
पद्मपुराणम् ।
अष्टाविंशतितम पर्व। अवतारितमौवीं स कृत्वा सायकासनं । तस्थौ विनयसंपन्नः स्वासने सीतया सह ॥ २४५ ॥ सकंपहृदया सीता रामाननदिदृक्षया । भावं कमपि संप्राप्ता नवसंगमसाध्वसा ॥ २४६ ॥ क्षुब्धाकूपारनिस्वानं सागरावर्तकामुकं । तावच लक्ष्मणोधिज्यं कृत्वास्फालयदुन्नतं ॥ २४७॥ शरे निहित दृष्टिं तं समालोक्य नभश्चराः । वदंतो देव मा मेति मुमुचुः कुसुमोत्करान् ॥ २४८ ॥ आकृष्य कार्मुकं क्रूरं मौवींसंरावमूर्जितः । अवतार्य च पद्मस्य पार्श्वे सुविनयस्थितः॥ २४९ ॥ विक्रांताय तथा तस्मै विद्याभचंद्रवर्धनः । अष्टादश ददौ कन्या धियेवाप्रौढिका इति ॥२५०॥ विद्याधरैः समागत्य परमं भयपूरितैः । वृत्तांते कथिते तस्मिश्चंद्रश्चितापरः स्थितः ॥२५१ ॥ वृत्तांतमिममालोक्य भरतः पुरुविस्मयः । अशोचदैवमात्मानं मनसा संप्रबुद्धवान् ॥ २५२ ॥ कुलमेकं पिताप्येक एतयोर्मम चेदृशं । प्राप्तमद्भुतमेताभ्यां न मया मंदकर्मणा ॥ २५३ ॥ अथवा किं मनो व्यर्थ परलक्ष्म्याभितप्यसे । पुरा चारूणि कमोणि न कृतानि ध्रुवं त्वया२५४ पद्मगर्भदलच्छाया साक्षाल्लक्ष्मीरियोज्वला । ईदृशी पुरुपुण्यस्य पुंसो भवति भामिनी ॥२५५॥ कलाकलापनिष्णाता विज्ञाना केकया ततः । विज्ञाय तनयाकूतं कर्णे प्रियमभाषत ।। २५६ ॥ भरतस्य मया नाथ शोकवल्लक्षितं मनः । तथा कुरु यथा नायं निर्वेदं परमृच्छति ॥ २५७ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org