________________
पद्मपुराणम् ।
अष्टाविंशतितमं पर्व।
अन्ये जगुरियं नूनं केनापि क्रूरचेतसा । प्रयुक्ता परमा माया बधार्थ पृथिवीक्षितां ॥ २३२ ॥ अन्ये जगुः किमस्माकं कामेनास्ति प्रयोजनं । ब्रह्मचर्येण नेष्यामः समयं साधवो यथा ॥२३३॥ ततः पद्मः समुत्तस्थौ वरकासुकलालसः । डुढौके च महानागमंथरां गतिमुद्वहन् ॥ २३४ ॥ आसीदति शुभे तस्मिन् रूपं भेजे धनुर्निजं । सुचारुपरमं सौम्यमंतेवासी गुराविव ॥ २३५ ॥ ततो विसन्धमादाय धनुरुद्वेष्टय चांशुकं । समारोपयदभ्युच्चैर्ध्वनितं विपुलं प्रभं ॥ २३६ ॥ महाजलधरध्वानशंकिभिः शिखिभिः कृतं । मुक्तककारवैर्नृत्यं वद्धविस्तीर्णमंडलैः ॥ २३७ ।। अलातचक्रसंकाशः संजातो दिवसाधिपः । सुवर्णरजसाच्छन्ना इवासन् व्योमवाहवः ॥ २३८ ।। साधु साध्विति देवानां बभूव नभसि स्वनः । ननृतुयंतराः केचिन्मुंचंतः पुष्पसंहतीः ॥२३९॥ ततो टनिजटंकारवधिरीकृतविष्टपं । आचकर्ष धनुः पद्मः संप्राप्तं चक्रताविव ।। २४० ॥ विकलीभूतनिश्शेषहषीकः सकलो जनः । तदावर्तमिव प्राप्तो भ्राम्यति त्रस्तमानसः ।। २४१ ॥ प्रवातघूर्णतांभोजपलाशाधिककांतिना । चक्षुषा स्मरचापेन सीता रामं निरैक्षत ।। २४२ ॥ रोमांचार्चितसर्वांगा दधती परमस्रजं । प्रीता रामं डुढोके सा वीडाविनमितानना ॥ २४३ ॥ पार्श्वस्थया तया रेजे स तथा सुंदरा यथा । यथायमिति दृष्टांत यो गदेत्स गतत्रपः ॥ २४४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org