________________
पद्मपुराणम्।
अष्टाविंशतितमं पर्व।
अस्त्यत्र कनको नामजनकस्यानुजो नृपः । सुप्रभायां ततो जाता सुकन्या लोकसुंदरी ॥२५८॥ स्वयंवराभिधं भूयः समुद्घोष्य नियोज्यतां । तथायं यावदायाति नान्यं तं भावनांतरं ॥२५९॥ ततः परममित्युक्त्वा वार्ता दशरथेन सा । कर्णगोचरमानीता कनकस्य सुचेतसः ॥ २६० ॥ यदाज्ञापयतीत्युक्त्वा कनकेनान्यवासरे । समाहूता नृपाः क्षिप्रं गता ये निलयं निजं ॥२६॥ ततो यथोचितस्थानस्थितभूनाथमध्यगं । नक्षत्रं गणमध्यस्थं शर्वरीवरविभ्रमं ॥ २६२ ॥ उपात्तसुमनोदामा कानकी कनकप्रभा । सुप्रभा भरतं वत्रे सुभद्रा भरतं यथा ॥ २६३ ॥ अत्यंतविषमीभावं पश्य श्रेणिक कर्मणां । यतोऽसौ संप्रबुद्धः सन् कन्यया मोहितः पुनः॥२६४॥ विलक्षाः पार्थिवाः सर्वे जग्मुः स्थानं यथायथं । अस्थुश्च विकथाशक्त्या बंधुवर्गसमागमे।।२६५॥ यादृक् येन कृतं कर्म भुंक्त तादृक् स तत्फलं। नझुप्तान् कोद्रवान् कश्चिदश्नुते शालिसंपदं २६६।। केतुतोरणमालाभिमंडितायां महाद्युतौ । अगुल्फकुसुमापूर्णा विशाला पण्यवत्मनि ॥ २६७ ।। स शंखतूर्यनिस्वानपूरिताखिलवेश्मनि । मिथिलायां तयोश्चके विवाहः परमोत्सवः ॥ २६८ ॥ द्रविणेन तथा लोकः सकलो परिपूरितः । महाप्रलयमायातं देहीति ध्वनितं यथा ॥ २६९ ॥ ये विवाहोत्सवं दृष्टुं स्थिता भूपाः सुचेतसः । परमं प्राप्य सन्मानं ययुस्ते स्वं स्वमालयं २७०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org