________________
पद्मपुराणम् ।
११०
श्रयस्त्रिंशत्तम पर्व ।
मुक्तलावण्यरूपस्य कामार्थरहितस्य च । अचेलस्यासहायस्य कीदृशं हितमात्मनः ॥ ९० ॥ स्नानालंकाररहितैः परपिंडोपजीविभिः । भवादृशैर्नरैः कीदृक् क्रियते हितमात्मनः ॥ ९९ ॥ दृष्ट्वा तं कामभोगार्त दयावान् संयतोवदत् । हितं पृच्छसि किं त्वं मां छिन्नाशापाशबंधनं ॥९२॥ इंद्रियैर्वचितान् पृच्छ हितोपायवहिष्कृतान् । मोदेनात्यंत वृद्धेन भ्राम्यते ये भवांबुधौ ॥ ९३ ॥ हंता सत्वसहस्राणामात्मानर्थपरायणः । यास्येष नरकं घोरमवश्यं नष्टचेतनः ॥ ९४ ॥ नूनं त्वया न विज्ञाता घोरा नरकभूमयः । उत्थायोत्थाय पाशेषु यत्परां कुरुषे रतिं ॥ ९५ ॥ पृथिव्यः सति सप्ताधो नरकाणां सुदारुणाः । सुदुर्गंधा सुदुष्प्रेक्षाः सुदुष्पर्शा सुदुस्तराः ॥ ९६ ॥ तीक्ष्णायस्कीलसंकीर्णा नानायंत्रसमाकुलाः । क्षुरधाराद्रिसंयुक्तास्तप्तलोहतलाधिकाः ॥ ९७ ॥ iratantriता महाध्वांता महाभयाः । असिपत्रवनच्छन्ना महाक्षारनदीयुताः ॥ ९८ ॥ पापकर्मपरिक्लिष्टैर्गजैरिव निरंकुशैः । तत्र दुःखसहस्राणि प्राप्यते पुरुषाधमैः ।। ९९ । भवंतमेव पृच्छामि त्वादृशैर्विषयातुरैः । क्रियते पापसंसक्तैः कीदृशं हितमात्मनः ॥ १०० ॥ इंद्रियप्रभवं सौख्यं किंपाकसदृशं कथं । अहन्यहन्युपादाय मन्यसे हितमात्मनः ॥ १०१ ॥ हितं करोत्यसौ स्वस्थ भूतानां यो दयापरः । दीक्षितो गृहजातो वा बुधो निर्मलमानसः १०२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org