________________
पद्मपुराणम्।
१११
त्रयस्त्रिंशत्तमं पर्व । कृतं तैरात्मनः श्रेयो ये महाव्रततत्पराः । अथवाणुव्रतैर्युक्ताः शेषा दुःखस्य भाजनं ॥ १०३ ॥ परलोकादि हेतुं त्वं कृत्वा सुकृतमुत्तमं । इहलोकेधुना पापं कृत्वा यास्यसि दुर्गतिं ॥ १०४ ॥ अमी निरागसः क्षुद्रा वराकाःक्षितिशायिनः । अनाथा लोलनयना नित्योद्विग्ना वने मृगाः १०५ आरण्यतृणपानीयकृतविग्रहधारिणः । अनेकदुःखसंछन्ना पूर्वदुष्कृतभोगिनः ॥ १०६ ॥ रात्रावपि न विदंति निंद्रां चकितचेतसः । साध्वाचारैर्न युक्तं ते कुलजैर्हिसितुं नरैः ॥१०७॥ अतो ब्रवीमि राजंस्त्वां यदीच्छस्यात्मनो हितं । त्रिधा हिंसां परित्यज्य कुर्वहिसां प्रयत्नतः ।। ऊ_रित्युपदेशोचैर्यदासौ प्रतिबोधितः । तदा प्रणतिमायातः फलैरिव महीरुहः ॥ १०९॥ उत्तीर्य प्रसृतः सप्तेजानुपीड़ितभूतलः । प्रणनामोत्तमांगेन सुसाधु रचितांजलिः ॥ ११०॥ निरीक्ष्य सौम्यया दृष्टया तमेवं चाभ्यनंदयत् । श्लाघ्योयं वीक्षितः सिद्धो मुनिस्त्यक्तपरिग्रहः ॥ शकुंतयो मृगाश्चामी धन्या वननिवासिनः । शिलातलनिषण्णं ये पश्यंतीमं समाहितं ॥११२ ॥ अतिधन्योहमप्यद्य मुक्तपापेन कर्मणा । यदेतत्रिजगद्वंद्यं प्राप्तः साधुसमागमं ॥ ११३ ॥ बंधुस्नेहमयं बंधं छित्वा ज्ञाननखैरयं । केसरीव विनिष्क्रांतः प्रभुः संसारपंजरात् ॥ ११४ ॥ अनेन साधुना पश्य वशीकृत्य मनोरिपुं । नाग्न्योपकारयोगेन शीलस्थानं प्रपाल्यते ॥ ११५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org