________________
पद्मपुराणम्।
११२
त्रयस्त्रिंशत्तम पर्व ।
अहं पुनरतृप्तात्मा तावदस्मिन् ग्रहाश्रमे । अणुव्रतविधौ रम्ये करोमि परमां धृति ॥ ११६ ॥ इति संचिंत्य जग्राह तस्मात्साघोहस्थितिं । चकारावग्रहं चैवं भावप्लावितमानसः ॥ ११७ ॥ देवदेवं जिनं मुक्त्वा परमात्मानमच्युतं । निग्रंथांश्च महाभागान नमाम्यपरानिति ॥ ११८ ॥ प्रीतिवर्धनसंज्ञस्य मुनेस्तस्य महादरः । चकार महती पूजामुपवासं समाहितः ॥ ११९ ॥ उपासीनस्य चाख्यातं परमं साधुना हितं । यत्समाराध्य मुच्यते संसाराद्भव्यदेहिनः ॥१२०॥ सागारं निरगारं च द्विधा चारित्रमुत्तमं । सावलं गृहस्थानां निरपेक्षं खवाससां ॥ १२१ ॥ दशेनस्य विशुद्धिश्च तपीज्ञानसमन्विता । प्रथमाद्यनुयोगाश्च प्रसिद्धा जिनशासने ॥ १२२ ॥ सुदुष्करं विगेहानां चारित्रमवधाये सः । पुनः पुनमतं चक्रेऽणुव्रतेष्वेव पार्थिवः ॥ १२३ ॥ निधानमधनेनैव प्राप्तं विभ्रदनुत्तमं । धर्म्यध्यानमसौ बुद्धा परमां धृतिमागतः ॥ १२४ ॥ नितांतक्रूरकर्मायमुपशांतो महीपतिः । इति प्रमोदमायातः संयतोऽपि विशेषतः ॥ १२५ ॥ गते साधौ तपोयोग्यं स्थानं सुकृतसत्रिणि । विभूत्या परया युक्तः सुलाभः सुखतर्पितः १२६ विहितातिथिसन्मानोऽपरेयुः कृतपारणः । प्रणम्य चरणौ साधोः स्वस्थानमविशन्नृपः ॥१२७॥ वहन् परमभावेन बजकर्णः सदा गुरुं । बभूव वीतसंदेहश्चितामेवमुपागतः ॥ १२८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org