SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । २१ सप्तविंशतितमं पर्व | 1 मृद्यमाना निपेतुस्ते स्वैरवेव सुधातले । विदुद्रुवुरसंख्याश्च भीत्या विकृतमूर्तयः ॥ ७७ ॥ ततः साधरयन् सैन्यमातरंगतमो नृपः । समं सकलसैन्येन लक्ष्मणाभिमुखं स्थितः ॥ ७८ ॥ तेनाभ्यागतमात्रेण प्रवृत्ते भैरवे मृधे । लक्ष्मणस्य धनुश्छिन्नं वाणैः सततवर्षिभिः ।। ७९ ।। कृपाणं यावदादत्ते लक्ष्मणो विरथीकृतः । समीरणजवात्तावत्पद्मो रथमचोदयत् ॥ ८० ॥ लक्ष्मणस्योपनीतश्च रथोऽन्यः क्षेपवर्जितः । अपारमदहत्सैन्यं रामः कक्षमिवानलः ॥ ८१ ॥ कांश्चिच्चिच्छेद वाणोषैः कांश्चित्कनकतोमरैः । चत्रैः शिरांसि केषांचित्कुचितोष्ठान्यपातयत् ८२ ननाश भयपूर्णा च यथासंम्लेच्छवाहिनी । विध्वस्तचामरच्छत्रध्वजचापसमाकुला ॥ ८३ ॥ निमिषांतरमात्रेण रामेणाक्लिष्टकर्मणा । म्लेच्छा निराकृता सर्वे कषाया इव साधुना ॥ ८४ ॥ आगतो यश्च सैन्येन निष्पारेणोदधिर्यथा । भीतो वैर्दशभिः सोयं म्लेच्छराजो विनिस्मृतः ॥ ८५ ॥ पराङ्मुखीकृतैः क्लीवैः किमेभिर्निहतैरिति । सौमित्रिणा समं रामः कृती निववृते सुखं ॥ ८६ ॥ अमी भयाकुला म्लेच्छा विहाय विजिगीषुतां । आश्रित्य सह्यविंध्याद्रीन् समयेनावतस्थिरे ८७ कंदमूलफलाहारास्तत्यजू रौद्रकर्मतां । राघवाद्भयमापन्ना वैनतेयादिवोरगाः ॥ ८८ ॥ सानुजः सानुजं पद्मो विग्रहे शांतविग्रहः । विसर्ज्य जनकं हृष्टं जनकाभिमुखोगमत् ॥ ८९ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003655
Book TitlePadmacharitam Part 02
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages446
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy