SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । सप्तविंशतितम पर्व। ततः पराङ्मुखीभूता लोककंटकवाहिनी । तथापि लक्ष्मणस्तेषामनुधावति पृष्ठतः ॥ ६४ ॥ अनिवार्य समालोक्य तं सौमित्रि मृगाधिपं । अपरे म्लेच्छशार्दूला समंतात्क्षोभमागताः ॥६५॥ बृहद्वादित्रनिर्घोषैः कुर्वाणा भैरवं रवं । चापासिचक्रबहुला कृतसंघातपंक्तयः ॥ ६६ ॥ रक्तवस्त्रशिरस्त्राणाः केचिद्वर्वरधारिणः । असिधेनुकराः क्रूरा नानावांगधारिणः ॥ ६७॥ केचिद्भिन्नांजनच्छाया शुष्कपत्रत्विषोऽपरे । केचित्कर्दमसंकाशाः केचित्ताम्रसमत्विषः ॥ ६८ ॥ कटिसूत्रमणिप्रायाः पत्रचीवरधारिणः । नानाधातुविलिप्तांगा मंजरीकृतशेखराः ॥ ६९ ॥ वराटकामदशना विशालपिठरोदराः । विरेजुः सैन्यमध्यं ते कुटजा इव पुष्पिताः ॥ ७० ॥ अपरे शवरा रेजुर्भाषणायुधपाणयः । पीनजंघाभुजस्कंधा असुरा इव दर्पिताः ॥ ७१॥ निर्दया पशुमांसादो मूढाः प्राणिवधोद्यताः । आरभ्य जन्मनः पापाः सहसारभ्यकारिणः ७२ वराहमहिषव्याघ्रवृककंकादिकेतवः । नानायानच्छदच्छत्रास्तत्सामंता सुभीषणाः ॥७३ ॥ नानायुद्धकृतध्वांता महावेगपदातयः । सागरोमिनिभाश्चंद्रा नानाभीषणनिस्वनाः ॥ ७४ ॥ लक्ष्मणक्ष्माधरं वन्बु क्षुब्धाः शरदनीरदाः । निजसामंतवातेन प्रेरिताः पुरुरंहसः॥ ७५ ॥ अधावल्लक्ष्मणस्तेषां निपाताय समुद्यतः। यथा नदत्समूहानां महावेगो गजाधिपः ॥ ७६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003655
Book TitlePadmacharitam Part 02
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages446
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy