________________
पुराणम्।
મ
सप्तविंशतितमं पर्व |
जनकः कनकं दृष्ट्वा परं गहनमागतं । अचोदयदतिक्रुद्धो दुर्वारकरिणां घटां ॥ ५१ ॥ वर्वरैस्तु महासैन्यैर्भमैर्भयैः पुनः पुनः । भीमैर्जनकराजोऽपि दिक्षु सर्वासु वेष्टितः ॥ ५२ ॥ एतस्मिन्नंतरे प्राप्तः पद्मः सौमित्रिणा सह । अपारं गहनं सैन्यमपश्यच्चारुलोचनः ।। ५३ ।। दृष्ट्वा तस्य सितच्छत्रं विशीर्णा शत्रुवाहिनी । तमसां संततिः स्फीताः पौर्णमासीविधुं यथा ५४ आश्वासितश्च वाणोधैर्जनको ध्वस्तकंकटः । तेन जंतुर्यथा दुःखी धर्मेण जगदायुषा ।। ५५ ।। राघवो रथमारूढो युक्तं चपलवाजिभिः । कवचोद्योतितवपुः हारकुंडल मंडितः ॥ ५६ ॥ धनुरायतमास्थाय शरपाणिहरिध्वजः । प्रकीर्ण कोल्वणच्छत्रो धरणीधीरमानसः ॥ ५७ ॥ प्रविशन् विपुलं सैन्यं लीलया लोकवत्सलः । सुभटैः पूर्यमाणः सन् भात्यर्क इव रश्मिभिः ५८ संरक्ष्य जनकं प्रीतः कनकं च यथाविधि । बलं विध्वंसयच्छत्रोरिभवत्कदलीवनं ॥ ५९ ॥ तथैव लक्ष्मणस्तत्र वाणानाकर्णसंहतान् । ववर्ष वायुना नुन्नः सागरे जलदो यथा ॥ ६० ॥ निशितानि च चक्राणि शक्तींश्च कनकानि च । शूलं क्रकच निर्घातान्येवमाद्यान्यचिक्षिपत् ।। ६१ ।। सौमित्रिभुजनिर्मुक्तैस्तैः पतद्भिरितस्ततः । म्लेच्छदेहानि कृत्यंते द्रुमाः परशुभिर्यथा ॥ ६२ ॥ भठान् शवरसैन्येऽस्मिन्वाणैर्निर्भिन्नवक्षसः । केचिच्छिन्नभुजग्रीवा निपतंति सहस्रशः ।। ६३ ।।
1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org