________________
पञ्चधुराणम् ।
सप्तविंशतितम पर्व। तत्र प्रयातुमस्माकं युज्यते यच्छ शासनं । इत्युक्ते हर्षितांगस्तं परिष्वज्य पिताब्रवीत् ॥ ३८ ॥ त्वं बालः सुकुमारांगः पद्म पद्मनिभेक्षणः । कथं तां सहसे जेतुं न प्रत्येम्यहमर्भकः ॥ ३९ ॥ सोऽवोचत्सद्यमुत्पन्नो भृशमल्पोऽपि पावकः । कक्षं दहति विस्तीर्ण महद्भिः किं प्रयोजनं ॥४०॥ बालः सूर्यस्तमो घोरं द्युतिः ऋक्षगणस्य च । एको नाशयति क्षिप्रं भूतिभिः किम्प्रयोजनम् ॥४१॥ ततः सहृष्टरोमांगो नपो दशरथः पुनः । प्रमोदं परमं प्राप्तो विषादं च सवाष्पदृक् ॥ ४२ ॥ सत्वत्यागादिवृत्तीनां क्षत्रियाणामियं स्थितिः । उत्सहते प्रयातुं यद्विहातुमपि जीवितं ।। ४३ ॥ अथवा क्षयमप्राप्ते जंतुरायुषि नाश्नुते । मरणं गहनं प्राप्तः परं यद्यपि जायते ॥ ४४ ॥ इति चिंतयतस्तस्य कुमारौ रामलक्ष्मणौ । पितुः पादाब्जयुगलं प्रणम्योपगतौ बहिः॥४५॥ ततः सर्वास्त्रकुशलौ सर्वशास्त्रविशारदौ । सर्वलक्षणसंपूर्णौ सर्वस्य प्रियदर्शनौ ॥ ४६॥ चतुरंगबलोपेतौ पूर्यमाणौ विभूतिभिः । संप्रयातौ रथारूढौ दीप्यमानौ स्वतेजसा ॥ ४७ ॥ पूर्वमेव तु निर्यातो जनकः सोदरान्वितः । अंतरं योजने द्वेच परसैन्यस्य तस्य च ॥४८॥ शत्रुशब्दममृक्षतो जनकस्य महारथाः । विविशुर्लेच्छसंघातं मेघदमिव ग्रहाः ॥ ४९ ॥ प्रवृत्तश्च महाभीमः संग्रामो रोमहर्षणः । बृहत्प्रहरणाटोप आयेम्लेच्छभटाकुलः ॥५०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org