________________
पद्मपुराणम् ।
एकत्रिंशत्तम पर्व।
सेयं सिद्धगतिः शुद्धा सनातनसुखावहा । इंद्रियव्रणरोगातेोहेनधैिर्न दृश्यते ॥ १२ ॥ श्रद्धासंवेगहीनानां हिंसादिष्वनिवर्तिनां । चतुर्गतिकसंवर्ता गतिरुग्रतमो रजा ॥ १३ ॥ अभव्यानां गतिः क्लिष्टा विनाशपरिवर्जिता । भव्यानां तु परिज्ञेया गतिर्निवृतिभाविनी ॥१४॥ धर्मादिद्रव्यपर्यंत लोकालोकमशेषतः । पृथिवी प्रभृतीन्कायानाश्रितांश्चेतनाभृतः ॥ १५ ॥ जीवराशिरनंतोयं विद्यते नास्य संक्षयः । दृष्टांतः सिकताकाशचंद्रादित्यकरादिकः ॥ १६ ॥ अनादिमंतनिर्मुक्तं त्रैलोक्यं स चराचरं । स्वकर्मनिचयोपेतं नानायोनिकृताटनं ।। १७ ॥ सिद्धाःसिद्धयंति सेत्स्यति कालेतपरिवर्जिते । जिनदृष्टेन धर्मेण नैवान्येन कथंचन ॥ १८ ॥ यःसंदेहकलंकेन निचितः पापकर्मणा । अभावितस्य धर्मेण का तस्य श्रद्दधानता ॥ १९ ॥ कुतःश्रद्धाविमुक्तस्य धर्मो धर्मफलानि च । अत्यंतदुःखविज्ञानं सम्यक्त्वरहितात्मनां ॥ २० ॥ अत्युग्रकर्मनिर्मोके वेष्टितानां समंततः । मिथ्याधर्मानुरक्तानां स्वहितादुःखवर्तिनां ॥ २१ ॥ सेनापुरेऽथ दीपिन्या उपास्तिर्नाम भावना । सा च मिथ्याभिमानेन परिपूर्णा निरर्गलं ॥२२॥ अश्रद्दधानात्सरंभमत्सरोडधारिणी । दुर्भावा सततं साधुनिंदनासक्तशब्दिका ॥ २३ ॥ प्रयच्छति स्वयं नान्नं यच्छंतं नानुमन्यते । निवारयति यत्नेन विद्यमानं सुभूर्यपि ॥ २४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org