________________
पद्मपुराणम् ।
एकत्रिंशत्तम पर्व। एवमादिमहादोषा कुतीर्थपरिभाविता । कालमेत्याश्रमद्भीमे निष्पारे भवसागरे ॥ २५ ॥ उपास्तिर्देहि देहीति समभ्यस्याक्षरद्वयं । पुण्यकर्मानुभावेन पुरे चंद्रपुरातये ॥ २६ ॥ सुतोभूद्भद्रधारिण्योर्भाग्यवान् बहुबांधवः । धारणो नामतस्तस्य पत्नी नयनसुंदरी ॥ २७ ॥ देशकालप्रयत्नेभ्यः साधुभ्यः शुद्धभावतः । दत्वासौ पारणां सम्यक्काले संत्यज्य विग्रहं ॥२८॥ विदेहे धातकीखंडे मेरोरुत्तरतः कुरौ । भुक्त्वा पल्यत्रयं भोगं समारूढं त्रिविष्टपं ॥ २९ ॥ च्युतातः पुष्कलावत्यां नगर्या नंदिघोपतः । वसुधायां समुत्पन्नो नामतो नंदिवर्धनः ।। ३० ॥ नदिघोषोन्यदा धर्म श्रुत्वोद्यानं प्रबुद्धवान् । नंदिवधेनमाधाय पृथिवीपरिपालने ॥ ३१ ॥ यशोधरमुनेः पार्श्वे प्रव्रज्य सुमहत्तपः । कृत्वा स्वर्ग समारूढस्तनुं त्यक्त्वा यथाविधि ॥ ३२ ॥ गृहिधर्मसमासक्तो नमस्कारपरायणः । पूर्वकोटिमहाभोगान् भुक्त्वा श्रीनंदिवर्धनः ॥ ३३ ॥ सन्यासेन तनुं त्यक्त्वा प्रयातः पंचमं दिवं । ततश्युतो विदेहेऽस्मिन् गिरिराजस्य पश्चिमे ॥३४॥ ख्याते शशिपुरे स्थाने विजयार्द्धनगोत्तमे । सूर्यजयोऽभवद्विद्युल्लतायां रत्नमालिनः ॥ ३५ ॥ अन्यदा सिंहनगरं रत्नमाली महाबलः । प्रस्थितो विग्रहं कर्तुं यत्रासौ वज्रलोचनः ॥३६॥ रथैः प्रभास्वरैर्दिव्यैः पदादिगजवाजिभिः । नानाशस्त्रकृतध्वांतःसामंतेः सुमहाबलैः ॥ ३७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org