________________
पद्मपुराणम् ।
एकत्रिंशत्तम पर्व ।
अथैकत्रिंशत्तमं पर्व। उवाच श्रेणिको भूपः सर्वधुरनरण्यजः । इमां विभूतिं संप्राप्य चक्रे किं गणनायक ॥ १ ॥ पुरातनं च वृत्तांतं रामलक्ष्मणयोस्तयोः । तवैव विदितं सर्व तन्नो ब्रूहि महायशः ॥२॥ इति पृष्टो महातेजा जगाद मुनिपुंगवः । निरवयं तया तत्त्वं यथा सर्वज्ञभाषितं ॥३॥ स्वसंशयमशेषज्ञं राजा दशरथोन्यदा । प्रणम्य साधुमप्राक्षीत्सर्वभूतहितं हितं ॥४॥ मया जन्मानि भूरीणि परिप्राप्तानि यानि तु । वेदयेकमपि नो तेषां तत्सर्व विहितं त्वया ॥५॥ तान्यहं ज्ञातुमिच्छामि भगवन्नुच्यतामिति । भवत्प्रसादतो मोहं निराकर्तुमहं यजे ॥६॥ श्रोतुं समुद्यतस्यैव भवान् दशरथस्य तु । सर्वभूतहितः साधुरिदं वचनमब्रवीत् ॥ ७॥ शृणु राजन् प्रवक्ष्यामि यन्मां पृच्छसि सन्मते । त्वया पर्यट्य संसारे मतिरासादिता यथा ॥८॥ न त्वयैकेन संसारो भ्रांतोन्यैरपि संसृतः । चिन्वानैः कर्मभिः कर्मदुःखसंजननो महान् ॥९॥ अस्मिन् जगत्रये राजन् जंतूनां स्वहितैषिणां । स्थितयस्तिस्र उद्दिष्टा उत्तमाधममध्यमा ॥१०॥ अभावी च तथा भावी सैहीं च गतिरुत्तमा । पुनरावृत्तिनिर्मुक्ता कल्याणी जिनदेशिता ॥११॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org