SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । त्रिंशत्तम पर्व । नेत्राभ्यामसुमुत्सृज्य स्तनाभ्यां च पयश्चिरं । सुपुत्रसंगमानंदं विदेहा परमं गता ॥ १६३ ॥ अर्हच्छासनदेवीव भैरावतनामनि । सा तत्र लोचने कृत्वा तस्थौ मना सुखांबुधौ ॥१६४॥ मासमात्रमुषित्वातो बंधुसंगममोदिना । पद्मो भामंडलेनोचे विनयं विभ्रतं परं ।। १६५ ॥ वैदेह्याः शरणं देव त्वमेवोत्तमबांधवः । छंदेऽस्या वर्ततां येन नो यात्युद्वेगमेषका ॥ १६६ ॥ स्वसारं च समालिंग्य स्नेहादेनां सुवेष्टितं । उपादिवादसौ भूयो भूयः प्रवरमानसः ॥ १६७ ।। मातालिंग्यागदत्सीतां सुते श्वसुरयोः प्रिये । परिवर्गे च तत्कुर्याः श्लाघ्यतां येन गच्छसि १६८ सर्वानामंत्र्य विन्यस्य कनके मिथिलेशितां । गृहीत्वा पितरौ यातः स्थानं भामंडलो निजं १६९ वीक्ष्यस्व माहात्म्यमिदं कृतस्य । धर्मस्य पूर्व मगधाधिराज ॥ विद्याधरेंद्रो यदवापि बंधुः । सीता च पत्नी गुणरूपपूर्णा ।। १७० ॥ अधिष्ठिते देवगणैश्च चापे । सकंकटे सीरगदादियुक्ते ॥ लब्धे सुरैरप्यतिदुर्लभे ये । पद्मन लक्ष्मीनिलयश्च भृत्यः॥ १७१ ॥ इदं जनो यः सुविशुद्धचेताः । शृणोति भामंडलबंधुयोगं ॥ अभीष्ट योगानरुजश्चिराय । रविप्रभोसौ लभते शुभात्मा ॥ १७२ ॥ इत्याचे रविषेणाचार्यप्रोक्त पद्मचरिते भामंडलसमागमाभिधानं नाम त्रिंशत्तमं पर्व । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003655
Book TitlePadmacharitam Part 02
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages446
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy