________________
पद्मपुराणम् ।
६६
त्रिंशन्तमं पर्व ।
भद्र किं किमयं स्वप्नः स्याज्जाग्रत्प्रत्ययोथवा । एहि दौकस्व ढौकस्व तावन्वाद्य परिष्वजे १५० इत्युक्त्वानंदवाष्पेण तरतारकलोचनः । साक्षात्पुत्रमिव प्राप्तं लेखहारं स सध्वजे ॥ १५१ ॥ नग्नतापरिहारेण देहस्थं वस्त्रभूषणं । ससंभ्रमं ददौ तस्मै मुदा वृत्तमिवाचरन् ॥ १५२ ॥ समेति बंधुलोकोस्य यावद्विद्याभिवर्द्धकः । तावत्तद्यानमायातं छादयद्गनं रुचा || १५३ ॥ अपृच्छत्तस्य वृत्तांतमतृप्तश्च पुनः पुनः । उक्तं विद्याधरैस्तस्य यथावदतिविस्तरं ॥ १५४ ॥ ततो यानं समारुह्य समस्तैर्बंधुभिः समं । निमेषेण परिप्राप्तो विनीतां तूर्यनादितां ।। १५५ ।। अवतीर्यावरादाशु पुत्रमालिंग्य निर्भरं । सुखमीलितनेत्रोसौ क्षणं मूर्छामुपागतः ॥ १५६ ॥ प्रबुध्य च विशालेन चक्षुषा वाष्पवारिणा । आचेचनकमैक्षिष्ट तनयं पाणिना स्पृशन् ॥ १५७॥ माता तं मूर्छिता दृष्ट्रा परिष्वज्य प्रबोधिनी । आचक्रंद सुकारुण्यं तिरश्रामपि कुर्वती ॥ १५८ ॥ परिदेवनमेव च चक्रे पुत्रक हा कथं । हृतोऽसि जातमात्रस्त्वं केनाप्युत्तमवैरिणा ॥ १५९ ॥ त्वदीक्षाचितया देहो दग्धोऽयं वह्नितुल्यया । भवद्दर्शनतो येन चिरान्निर्वापितोऽद्य मे ।। १६० ।। धन्या पुष्पवती सुखी यया तेंऽगानि शैशवे । क्रीडया धूसराय के निहितानि सुचुंचितं ॥ १६१॥ चंदनेन विलिप्तस्य कुंकुमस्थासकांचितं । दधतः शैशवं दृष्टं कौमारं ते तथा वपुः ॥ १६२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org