________________
पद्मपुराणम् ।
३३२
एकपंचाशत्तमं पर्व ।
चिरं प्रार्थयमानोऽपि यदासौ लब्धवान्न सः । तदास्मद्दुः खचिन्तास्थः संजातगारकेतुकः॥ ३४ ॥ ततः प्रभृति चास्माकमयमेव मनोरथः । द्रक्षामस्तं कदा वीरमिति साहससूदनम् ।। ३५ ।। एतच्च वनमायाता दारुणडुमसंकटम् । मनोऽनुगामिनीं नाम विद्यां साधयितुं परम् ॥ ३६ ॥ दिवस द्वादशोऽस्माकं वसन्तीनामिहान्तरे । प्राप्तस्य साधुयुग्मस्य वर्तते दिवसोऽष्टमः ।। ३७ ।। अंगारकेतुना तेन वीक्षिताश्च दुरात्मना । ततस्तेनानुबन्धेन क्रोधेन पूरितोऽभवत् ॥ ३८ ॥ ततोऽस्माकं वधं कर्तुमेता दश दिशः क्षणात् । धूमांगारकवर्षेण वह्निना पिंजरीकृताः ॥ ३९ ॥ षभिः संवत्सरैः साग्रैर्यदुसाध्यं प्रसाध्यते । दत्वांगमुपसर्गस्य तदद्यैव हि साधितम् ॥ ४० ॥ इहापदि महाभाग नाभविष्यद्भवान् यदि । अधिक्ष्याम हि योगिभ्यां सहारण्ये ततो ध्रुवम् ४१ साधु साध्विति संस्मित्य ततो मारुतिरब्रवीत् । भवतीनां श्रमः श्लाघ्यः फलयुक्तच निश्वयः ४२ अहो वो विमला बुद्धिरहो स्थाने मनोरथः । अहो भाग्यत्वमुत्तुंगं येन विद्या प्रसाधिता ॥ ४३ ॥ आख्यातं च क्रमात्सर्वं यथावृत्तं सविस्तरम् । पद्मागमादिकं यावदात्मागमनकारणम् ॥ ४४ ॥ तत्तश्च श्रुतवृत्तान्तो गंधर्वोऽमरया सह । समागतो महातेजास्तमुद्देशं सहानुगः ॥ ४५ ॥ नभश्चरसमायोगे देवागमनसन्निभे । क्षणेन तद्वनं जातं सर्व नन्दनसुन्दरम् ॥ ४६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org