________________
पद्मपुराणम् ।
३७१
पञ्चपञ्चाशत्तम पर्व । नैषा सीता समानीता पित्रा तव कुबुद्धिना । रक्षोभोगिविलं लंकामेषानीता विषौषधिः ॥ २५ ॥ सुमित्रानंदनं क्रुद्धं तं लक्ष्मीधरपुंगवम् । सिंह रणमुखे शक्ता न यूयं व्यूहितुं गताः ॥ २६ ॥ अर्णवाहूं धनुर्यस्य यस्यादित्यमुखाः शराः । पक्षे भामंडलो यस्य स कथं जीयते जनैः ॥२७॥ ये तस्य प्रणतास्तुंगाः खेचराणां महाधिपाः । महेन्द्रा मलयास्तीराः श्रीपर्वततनूरुहाः ॥ २८ ॥ किष्किन्धास्त्रिपुरा रत्नद्वीपवेलंधरालकाः । कैलीकिला खतिलका संध्याहाः हैहयास्तथा ॥२९॥ प्राग्भारदधिवक्त्राश्च तथान्ये सुमहाबलाः । विद्याविभवसंपन्नास्ते तु विद्याधरा न किम् ॥३०॥ एवं प्रवदमानं तं क्रोधप्रेरितमानसः । उत्खाय रावणः खड़मुद्रतो हन्तुमुद्यतः ॥३१॥ तेनापि कोपवश्येन दृष्टान्तेनोपदेशने । उन्मूलितः प्रचण्डेन स्तंभो वज्रमयो महान् ॥ ३२ ॥ युद्धार्थमुद्गतावतो भ्रातरावुग्रतेजसौ । सचिवैवोरितो कृच्छाद्गतौ स्वं स्वं निवेशनम् ॥ ३३ ॥ कुंभकर्णेन्द्रजिन्मुख्यैरेतैः प्रत्यायितस्ततः । जगाद रावणो विभ्रन्मानसं पौरुषाशयम् ॥ ३४ ॥ आश्रयस्य इव स्वस्य स्थानस्याहिततत्परः । दुरात्मा मत्पुरीतोऽयं परिनिःक्रामतु द्रुतम् ॥३५॥ अनर्थोद्यतचित्तेन स्थितेन किमिहामुना । स्वांगेनापि न मे कृत्यं प्रतिकूलप्रवृत्तिना ॥ ३६ ॥ तिष्ठन्तमिह मृत्युं चेदेतकं न नयाम्यहम् । ततो रावण एवाहम् न भवामि विसंशयम् ॥ ३७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org