SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । पञ्चपञ्चाशत्तम पर्व । भीरत्नश्रवसः पुत्रः सोप्यहं न भवामि किम् । इत्युक्त्वा निर्ययौ मानी लंकातोऽथ विभीषणः॥ साग्राभिश्चारुशस्त्राभिः त्रिंशद्भिः परिवारितः । अक्षौहिणीभिरुयुक्तो गंतु पद्मस्य संश्रयम् ॥३९॥ विद्युद्घनेभवजेन्द्रप्रचण्डचपलाभिधाः । उद्गताशनिसंघाताः कालाद्याश्च महाबलाः ॥ ४० ॥ शूराः परमसामन्ता विभीषणसमाश्रयाः। सान्तःपुरा ससर्वस्वा नानाशस्त्रविराजिताः ॥४१॥ व्रजन्तो वाहनश्चित्रैश्छादयित्वा नभस्थलम् । परिच्छदसमायुक्ताः हंसद्वीपं समागताः ॥ ४२ ॥ द्वीपस्य तस्य पर्यन्ते सुमनोज्ञे ततस्तटे । ते सरिच्छंबिते तस्थुः सुरा नन्दीश्वरे यथा ॥ ४३ ॥ विभीषणागमे जाते जातो वानरिणां महान् । हिमागमे दरिद्राणामिवाकपः समंततः ॥ ४४ ॥ समुद्रावर्तभृत्सूर्य-हासं लक्ष्मीभृदैक्षत । बज्रावर्त धनुः पद्मः परामृषमुदादारः ॥ ४५ ॥ अमंत्रयच्च संभूय मंत्रिणः स्वैरमाकुलाः । सिंहादिभमिव त्रस्तं वृन्दबन्धमगावलम् ॥ ४६॥ युवा विभीषणेनाथ दंडपाणिर्विचक्षणः । प्रेषितः पद्मनाथस्य सकाशं मधुराक्षरः ॥४७॥ सभायामुविष्टोसौ कृतप्रणतिराहृतः । निजगादानुपूर्वेण विरोधं भ्रातृसंभवम् ।। ४८ ॥ इति चावेदयन्नाथ तव पद्म विभीषणः । पादौ विज्ञापयत्येवं धर्मकार्यसमुद्यतः ॥ ४९ ॥ भवन्तं शरणं भक्तः प्राप्तोऽहं श्रितवत्सल । आज्ञादानेन मे तस्मात्प्रसादं कर्तुमर्हसि ॥५०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003655
Book TitlePadmacharitam Part 02
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages446
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy