________________
पद्मपुराणम् ।
३७०
पञ्चपञ्चाशत्तम पर्व ।
सुखोदधौ निमग्नस्त्वं स्वस्थस्तिष्ठ विचक्षण । अनवद्यो महाभोगस्तवात्मीयं समंततः ॥ १२ ॥ समाने जानकी तस्मिन् पद्मनाभे नियुज्यताम् । निजः प्रकृतिसम्बन्धः सर्वथैव प्रशस्यते ॥१३॥ श्रुत्वा तदिन्द्रजिद्वाक्यं जगाद पितृचित्तवित् । स्वभावात्यन्तमानाढयमागमप्रतिकूलनम् ॥१४॥ साधो केनासि पृष्टस्त्वं कोऽधिकारोऽपि वा तव । येनैवं भाषसे वाक्यमुन्मत्तगदितोपमम् ॥१५॥ अत्यन्तं यद्यधीरस्त्वं भीरुश्व क्लीवमानसः । स्ववेश्मविवरे स्वस्थस्तिष्ठ किं तव भाषितैः ॥१६॥ यदर्थ मत्तमातंगमहावृन्दांधकारिणि । पतद्विविधशखौघे संग्रामेऽत्यंतभीषणे ॥ १७॥ हत्वा शत्रून् समुवृत्तास्तीक्ष्णया खड्गधारया । भुजेनोपार्जते लक्ष्मीः सुकृताद्वीरसुन्दरीः ॥१८॥ सुदर्लभमिदं प्राप्य तत्स्त्रीरत्नमनुत्तमम् । मूढवन्मुंचते कस्मात्त्वया व्यर्थमुदाहृतम् ॥ १९ ॥ ततो विभीषणोऽवोचदितिनिर्भर्त्सनोद्यतः । पुत्रनामासि शत्रुस्त्वमस्य दुस्थितचेतसः ॥२०॥ महाशीतपरीतस्त्वमजानन् हितमात्मनः । अन्यचिन्तानुरोधेन हिमवारिणि मज्जसि ॥ २१ ॥ उद्गतं भवने वह्नि शुष्कैः पूरयसीन्धनैः । अहो मोहग्रहार्तस्य विपरीतं तवेहितम् ॥ २२ ॥ जांबूनदमयी यावत्सप्राकारविमानिका । लक्ष्मणेन शरैस्तीक्ष्णलंका न परिचूर्ण्यते ॥ २३ ॥ तावन्नृपसुतां साध्वी पद्माय स्थिरचेतसे । क्षेमाय सर्वलोकस्य युक्तमपयितुं द्रुतम् ॥ २४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org