SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । ४१३ द्वाषष्टितम पर्व । निजसैन्यार्णवं दृष्ट्वा पीयमानं समंततः । शस्त्रज्वालाविलासेन कपिप्रलयवह्निना ॥ १५ ॥ क्षणं बाणाः क्षणं दंडाः क्षणं पाशत्वमागताः । आमरा ह्यस्त्रभेदास्ते यथा चिंतितरूपगाः॥६९।। कपाशैर्यथा जीवो नागपाशैः स वेष्टितः । भामंडलेन पद्माज्ञां प्राप्याऽऽत्मीये रथे कृतः ॥७॥ मंदोदरीसुतोऽप्येष बद्धो नारायणाज्ञया । विराधितेन याने स्वे स्थापित: क्लान्तविग्रहः ॥७॥ तावद्रणमुखेऽभाणीदशवक्त्रो विभीषणम् । संक्रुद्वोऽभिमुखीभूतं चिरं सोढा रणक्रियम् ॥ ७२ ॥ प्रहारामिममेकं मे प्रतीच्छ यदि मन्यसे । सत्यं पुरुषमात्मानं रणकंडूप्रचंडकम् ।। ७३ ॥ इत्युक्त्वा विस्फुरत्पिगस्फुलिंगालिंगिताम्बरम् । शुलं चिक्षेप लुप्तोऽसौ लक्ष्मणेनांतरे शरैः॥७४॥ तं भस्मीकृतमालोक्य शूलमत्युग्रमायुधम् । अधिकं रावणः क्रुद्धः शक्ति जग्राह दारुणाम् ॥७५॥ यावत्पश्यति संजातमग्रतो गरुडध्वजम् । प्रौढेन्दीवरसंकाशं भासुरं पुरुषोत्तमम् ।। ७६ ॥ प्रलंपांभोदसंभारगंभीरोदारनिस्वनः । विंशत्यद्धमुखोऽवोचत्तमेवं ताडयान्नव ॥ ७७ ॥ अन्यस्यैव मया शस्त्रमुद्यतं बंधकारणम् । यदि तत्कोऽधिकारस्ते स्थातुमासन्नतो मम ॥ ७८ ॥ अभिवांछसि मर्तुं वा यदि दुर्मत लक्ष्मण | प्रतीच्छेमं प्रहारं मे तिष्ठ प्रगुणविग्रहः ॥ ७९ ।।। विभीषणं समुत्सार्य सोऽपि कृच्छ्रेण मानवान् । दशास्यमभिदुद्राव चिरं संग्रामखदितम् ॥८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003655
Book TitlePadmacharitam Part 02
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages446
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy