SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । द्वात्रिंशत्तम पर्व । एवमादिगदंतस्ते कृपणा बहु तो नदीं । डुढौकिरे प्रसनुश्च नानाचेष्टाविधायिनः ॥ ३८ ॥ ततस्तान् राघवोऽवोचद्विश्रब्धो रोधसि स्थितः। अधुना विनिवर्तध्वं भद्रा भीममिदं वनं ॥३९॥ अस्माभिः सह युष्माकमियानेषैव संगमः । एषा नद्यवधिर्जाता भवतीत्सुक्यवर्जिता ॥ ४०॥ तातेन भरतः स्वामी सर्वेषां वो निवेदितः । विसाध्वसास्तमावृत्य तिष्ठत क्षितिपालिनः ॥४१॥ ततस्ते पुनरित्यूचुनोथास्माकं भवान् गतिः। प्रसादं कुरु मात्याक्षीरस्मान् कारुण्यकोविद ॥४२॥ त्रिराश्रयाकुलाभूता त्वयेयं रहिता प्रजा । वद कं शरणं यातु सदृशः कस्तवापरः ॥ ४३ ॥ व्याघ्रसिंहगजेंद्रादिव्यालजालसमाकुले । वसामो भवता सार्धमरण्ये न विना दिवि ॥ ४४ ॥ तनोति वर्तते चित्त प्रतियामः कथं वयं । महत्तरत्वमेतेन हृषीकेष्वर्जितं ननु ॥ ४५ ॥ किं नो गृहेण किं भोगैः किं दारैः कि बंधुभिः । भवता नररत्नेन मुक्तानां पापकर्मणां ॥ ४६॥ क्रीडास्वपि त्वया देव वंचिता स्मो न जातुचित् । सम्मानेनाधुना कस्माज्जातोस्वत्यंतनिष्टुरः ४७ कोपराधो वदास्माकं भवच्चरणरेणुना । परमां वृद्धिमेतानां भक्तानां भृत्यवत्सल ॥४८॥ अहो जानकि लक्ष्मीश रचितोयं शिरोंजलिः । प्रसादयितमीशं नः प्रसादी भवतोरयं ॥ ४९ ॥ सीता लक्ष्मीधरश्चैवमुच्यमानौ सुदक्षिणौ । तस्थतुः पद्मपादानन्यस्तनेत्री निरुत्तरौ ॥ ५० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003655
Book TitlePadmacharitam Part 02
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages446
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy