________________
पद्मपुराणम् ।
द्वात्रिंशत्तमं पर्व।
ग्रामखेटमटंबेषु घोषेषु नगरेषु च । लोकेन पूजितौ वीरौ भोजनादिभिरुत्तमौ ॥ २५ ॥ केचिदध्वजखेदेन सामंता व्रजतोस्तयोः । पश्चादज्ञापियत्वैव विवृत्ता ज्ञातनिश्चयाः ॥ २६ ॥ अपरे त्रपया केचिद्भीत्यान्ये भक्तितत्पराः । अव्रजन् विनयात्पद्यां दत्त्वा दुःखस्य मानसं २७ ततो हरिगजत्रातसंकुलारावभैरवां । परियात्राटवीं प्राप्तौ लीलया रामलक्ष्मणौ ॥ २८ ॥ तस्यां बडुलशर्वयां तुल्यध्वांतां महानगैः । निम्नगां शर्वरीमेतौ शवराश्रितरोधसां ॥ २९ ॥ तस्या रोधसि विश्रम्य नानास्वादुफलोचिते । कांश्चित्पावर्तयद्भूपान् पद्मः सुप्रतिबोधनः॥३०॥ महतापि प्रयत्नेन निवृत्ता नापरे नृपाः । पझेन सहित गंतुं किल संजातनिश्चयाः ॥ ३१ ॥ ततस्ते निम्नगां दृष्ट्वा महानीलावभासिनी । चंडवेगोर्मिसंघातनिर्मितोदारनिश्चितां ॥ ३२ ॥ उन्मज्जत्प्रवलग्राहकृतकल्लोलसंकुलां । वीचीमालासमाघातनिपतन्मृदुरोधसां ॥ ३३ ॥ महींद्रकंदरास्फालप्रांते सूत्कारनादिनीं । उद्वर्तमानमीनांगस्फुरद्भास्कररोचिषां ॥ ३४ ॥ उद्वृत्तनक्रसूत्कारजात दूरगशीकरां । उड्डीयमाननिश्शेषभयपूर्णपतत्रगां ॥ ३५ ॥ संत्रासकंपमानांगा जगू रामं सलक्ष्मणं । समुत्तारय नाथास्मानपि पद्मप्रसादवान् ॥ १६ ॥ भृत्यानां भक्तिपूर्णानां प्रसादं कुरु लक्ष्मण । देवि ते कुरुते वाक्यं जानकी बेहि लक्ष्मणं ॥३७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org