SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । द्वात्रिंशत्तमं पर्व। भभिसारिकया साकमन्यः प्राप्यसमागमं । शुनोऽपि पदशब्देन याति त्रासमनुत्तमं ।। १२ ॥ इनि नियूददेशेषु मंडपेषु च कामिनां । श्रृण्वंतौ वीक्ष्यमाणौ च वृत्तांतौ जग्मतुः शनैः ॥ १३ ॥ अपहारेण निर्गत्य पुरीतः पश्चिमेन तौ । आश्रितो मार्गयोगेन दक्षिणो दक्षिणां दिशं ॥ १४ ।। त्रियामांते ततोऽस्पष्टे सामंता वेगवाहिनः । राघवेण समं गंतुमुत्सुका भक्तिनिर्भराः ॥ १५॥ यथाश्रुति परिज्ञाय बंधुवंचनकारिणः । समीपं रामदेवस्य प्रापुर्मथरगामिनः ॥ १६ ॥ ते चक्षुर्गोचरीकृत्य समेतो रामलक्ष्मणौ । महाविनयसंपन्नाः पद्भद्यामेव डुढोकिरे ।। १७॥ प्रणिपत्ते च भावेन संक्रमे संवभापिरे । यावत्तावन्महासैन्यं तद्वेषार्थमाययौ ॥ १८ ॥ प्रशशंसुश्च ते सीतामितिनिर्मलचेतसः । वयमस्याः प्रसादेन राजपुत्रो समागताः ॥ १९ ॥ अयास्यद्यदि नैताभ्यां सममेषा सुमंथरा । ततः कथमिव प्राप्स्यामेतौ पवनरहसौ ॥ २० ॥ इयं नः सुसती माता परमप्रियकारिणी । एतस्याः सदृशा नान्या प्रशस्तास्ति क्षिताविह ॥२१॥ तौ सीतागतिचिंतत्वान्मंदमंदं नरोत्तमौ । गत्यूतमात्रमध्वानं सुखयोगेन जग्मतुः ॥ २२॥ सस्यानि बहुरूपाणि पश्यंती क्षितिमंडले । सरांसि कंजरम्याणि तरूंश्च गगनस्पृशः ॥ २३ ॥ आपूर्यमाणपर्यतौ वेगवनिर्जराधिपः । घनागमेनदीगंगाकालिंदीप्रवहाविव ॥ २४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003655
Book TitlePadmacharitam Part 02
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages446
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy