________________
पद्मपुराणम् ।
द्वात्रिंशत्तम पर्व ।
अथ द्वात्रिंशत्तमं पर्व। अथ तत्र क्षणं नीत्वा निद्रांती धृतकंकटौ । अर्धरात्रे महाध्वांते निश्शब्दे शांतमानवे ॥१॥ विधाय जानकी मध्ये जिनं नत्वा सकार्मुकौ । सुवेषौ प्रस्थितौ दीपैः पश्यंताविव कामिनः॥२॥ कश्चित्सुरतखिन्नांगो बाहुपंजरवर्तिनीं । कृत्वा प्राणसमां निद्रामतिगाढां निषेवते ॥३॥ कृत्वापराधकः पूर्व कोपिनी कश्चिदंगनां । प्रत्याययत्यलीकेन शपथेन पुनः पुनः ॥ ४ ॥ अपरो मानमुत्सृज्य कांतया स्मरतप्तया । कृतकं कोपमायातः सुवाग्भिः परिसांत्व्यते ॥ ५॥ सुरतायासखिन्नांगा देहे कस्यचिदंगना । लीना तत्त्वमिव प्राप्ता गाढां निद्रां निषेवते ॥६॥ नवसंगमनां कश्चिजायां विमुखवर्तिनीं । कृच्छ्रात्प्रस्तावमानीय संभाषथति संमदी ॥ ७॥ कस्मैचित्पूर्ववैगुण्यं कथयत्यंगनाखिलं । अपरो वेदयत्यस्मै विस्रब्धः कृतमाननः॥८॥ कश्चित्परगृहं प्राप्तो धूर्तः संकुचितांगकः । उद्वासयति मार्जारं वातायनकृतस्थिति ॥९॥ अपरः कृतसंकेतां शून्यदेवकुलांतरे । कुलटामाकुलीभूतो मुहुरुत्थाय वीक्षते ॥ १० ॥ चिरादुपगतं कंचिद्ध्वनरोषाभिंसारिका । ताडयत्युत्तरीयेण वध्वा मेखलया खलम् ॥११॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org