SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । १५ Jain Education International अथ सप्तविंशतितमं पर्व । ततो मगधराजेंद्रश्चारुवृत्तांतविस्मितः । पप्रच्छ गणिनामग्यं नूतनप्रश्रयान्वितः ॥ १ ॥ किं पुनस्तस्य माहात्म्यं दृष्टं जनकभूभृता । रामस्य येन सा तस्मै तेन बुद्धद्या निरूपिता ॥२॥ ततः करतला संग द्विगुणीभूतदंतभाः । जगौ गणधरो वाक्यं चित्तप्रह्लादना वहं ॥ ३॥ शृणु राजन् प्रवक्ष्यामि रामस्याक्लिष्टकर्मणः । यतः प्रकल्पिता कन्या जनकेन सुबुद्धिना ॥ ४ ॥ दक्षिणे विजयार्द्धस्य कैलाशा द्रेस्तथोत्तरे । अंतरेत्यंत बहवः संति देशा सहांतराः ॥ ५ ॥ तत्रार्धर्व देशो निःसंयमनमस्कृतिः । निर्विदग्धजनो घोरम्लेच्छलोकसमाकुलः ॥ ६ ॥ मयूरमालनगरे कृतांतनगरोपमे । अंतरंगतमो नामेत्यर्द्धवर्वरचारिणां ॥ ७ ॥ पूर्वापरायत क्षोण्यां यावंतो म्लेच्छसंभवाः । कपोतशुक कंबोजमांकनाद्याः सहस्रशः ॥ ८ ॥ गुप्ता बहुविधैः सैन्यैर्भीषणैर्विविधायुधैः । आंतरंगतमं प्रीत्या परिवार्य ससाधनाः ॥ ९॥ आर्यानेताञ्जनपदान् प्रचंडांतररंहसः । उद्वासयंत आजग्मुरिति कारुण्यवर्जिताः ॥ १० ॥ देशं जनकराजस्य ततो व्याप्तुं समुद्यताः । शलभा इव निशेषमुपप्लवविधायिनः ॥ ११ ॥ 1 सप्तविंशतितमं पर्व । For Private & Personal Use Only www.jainelibrary.org
SR No.003655
Book TitlePadmacharitam Part 02
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages446
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy