________________
पद्मपुराणम् ।
३३४
त्रिपंचाशत्तम पर्व
उवाच खगतिः केन मम सैन्यस्य विघ्नता । अहो विज्ञायतां क्षिप्रं कस्येदमनुचेष्टितम् ॥ ३ ॥ किं स्यादसुरनाथोऽयं चमरो गर्वपर्वतः । आखण्डलः शिखंडी वा नैषामेकोऽपि युज्यते ॥ ४ ॥ प्रतिमा किन्तु जैनेन्द्री शिखरेऽस्य महीभृतः । भवेद्वा भगवान् कश्विन्मुनीश्वरमविग्रहः ॥ ५ ॥ तस्य तद्वचनं श्रुत्वा वितर्ककृतवर्त्तनम् । मंत्री पृथुमतिर्नाम वाक्यमेतदुदाहरत् || ६ || निवर्त्तस्व महाबुद्धे श्रीशैल ननु किं तत्र । क्रूरयंत्रयुतेनायं मायाशालो मतिं गतः ॥ ७ ॥ चक्षुस्ततो नियुज्यासावपश्यत्पद्मलोचनः । दुःप्रवेशं महाशालं विरक्त स्त्रीमनः समम् ॥ ८ ॥ अनेकाकारवक्त्राढ्यं भीममाशालिकात्मकम् । त्रिदशैरपि दुढौंक्यं सर्वभक्ष्यं प्रभासुरम् ॥ ९ ॥ संकटोत्कटतीक्ष्णाग्रं क्रकचावलिवेष्टितम् । रुधिरोद्गारजिह्वाग्रं सहस्रविलसत्तटम् ॥ १० ॥ स्फुरद्भुजंगविस्फारि फणात्शूत्कारशब्दितम् । विषधूमान्धकारान्तज्वलदं गारदुःसहम् ॥ ११ ॥ यस्तं सर्पति मूढात्मा शौर्यमानसमुद्धतः । निःक्रामति न भूयोऽसौ मंडूकोहिमुखादिव ॥ १२ ॥ लंकाशाल परिक्षेपं सूर्यमार्गसमुन्नतम् | दुर्लभ्यं दुर्निरीक्ष्यं च सर्वदिक्षु सुयोजितम् ॥ १३ ॥ युगान्तकालमेघौघनिर्घोषसमभीषणम् । हिंसाग्रंथमिवात्यन्तपापकर्मविनिर्मितम् ॥ १४ ॥ तं दृष्ट्रा मारुतिर्दध्यावो नाथेन रक्षसाम् । दाक्षिण्यमूर्जितं पूर्व मायाप्राकारकारिणां ।। १५ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org