SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणमें । ३७५ पञ्चपञ्चाशत्तम पर्व । स्यंदनैर्विविधैर्यानैः स्थूरीपृष्टैर्मरुज्जवैः । प्रावृषेण्यघनच्छायैरनेकपकदम्बकैः ॥ ७७ ॥ अनुरागोत्कटैर्भूत्यैः वीरैः सन्नाहभूषणैः । ययुः खेचरसामंताः समंताच्छन्नपुष्कराः ॥ ७८ ॥ अग्रप्रयाणकन्यस्ताः प्रवीराः कपिकेतवः । संग्रामधरणी प्रापुस्तद्योग्यत्वमुदाहृतम् ॥ ७९ ॥ विंशतिर्योजनान्यस्या विस्तारः(रुन्द्रता)परिकीर्तितः। आयामस्य तु नैवास्ति परिच्छेदोरणक्षितेः॥ नानायुधविचिह्नानां सहस्रैरुपलक्षिता । मृत्युचक्रमणिक्ष्मेव समवर्तत युद्धभूः ॥ ८१॥ ततो नागाश्वसिंहानां दुंदुभीनां च निःस्वनम् । श्रुत्वा हर्ष दशास्योगाद्विरागतरणोत्सवः ।।८२॥ आज्ञादानेन चाशेषान्सामंतान्समवाभवन् । नहि ते वंचितास्तेन युद्धानंदेन जातुचित् ॥ ८३ ॥ भास्करामाः पयोदाहाः कांचना व्योमवल्लभाः । गंधर्वगीतनगराः कंपनाः शिवमंदिराः ॥४॥ सूर्योदयामृताभिख्याः शोभासिंहपुराभिधाः । नृत्यगीतपुरालक्ष्मीकिन्नरस्वनसंज्ञकाः ॥८५॥ बहुनादा महाशैलाश्चक्राहा सुरनू पुराः । श्रीमन्तो मलयानन्दाः श्रीगुहा श्रीमनोहराः ॥ ८६ ॥ रिपुंजयाः शशिस्थानाः मातंडाभविशालकाः । ज्योतिदंडाः परिक्षोदा अश्वरत्नपराजयाः॥८७॥ एवमाद्याः पुराभिख्याः महाखेचरपार्थिवाः । सचिवैरन्विताः प्रीता दशाननमुपागताः ॥ ८८ ॥ अस्त्रवाहनसन्नाहप्रभृतिप्रतिपत्तिभिः । रावणोऽपूजयद्भूयः सुत्रामा त्रिदशानिव ॥ ८९ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003655
Book TitlePadmacharitam Part 02
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages446
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy