SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । ३७६ षट्पञ्चाशत्तमं पर्व! अक्षौहिणीसहस्त्राणि चत्वारि त्रिककुष्प्रभोः । स्वशक्तिजनितं प्रोक्तं बलस्य प्रमितं बुधैः ॥९०॥ एकमक्षौहिणीनां तु किष्किन्धनगरप्रभोः । सहस्रं साग्रमेकं तु भामण्डलविभोरपि ॥ ९१॥ सुग्रीवः सचिवैः साकं तथा पुष्पवतीसुतः । आकृत्य परमोधुक्तैस्तस्थतुः पद्मलक्ष्मणौ ॥ ९२ ॥ अनेकगोत्रचरणा नानाजात्युपलक्षणाः । नानागुणक्रियाख्याता नानाशब्दा नभश्चराः ॥ ९३ ॥ पुण्यानुभावेन महानराणां भवन्ति शत्रोरपि पार्थिवाः स्वाः । __ कुपुण्यभाजां तु चिरं स्वशक्ता विनाशकाले परतां भजन्ते ।। ९४ ॥ भ्राता ममायं सुहृदेष कश्यो ममैष बंधुः सुखदः सदेति । संसारवैचित्र्यविदा नरेण नैतन्मनीषारविणा विचिन्त्या ॥ ९५ ॥ इत्यार्षे रविषणाचार्यप्रोक्ते पद्मपुराणे विभीषणसमागमाभिधानं नाम पंचपंचाशत्तमं पर्व ॥ ५५ ॥ अथ षट् पञ्चाशत्तमं पर्व । मगधेन्द्रस्ततोऽपृच्छत्पुनरेवं गणेश्वरम् । अक्षोहिण्याः प्रमाणं मे वक्तुमर्हसि सन्मुने ॥ १ ॥ शक्रभूतिरथागादीच्छृणु श्रेणिक पार्थिव । अक्षोहिण्याः प्रमाणं ते संक्षेपेण वदाम्यहम् ॥२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003655
Book TitlePadmacharitam Part 02
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages446
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy