SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । ૨૯૮ चत्वारिंशत्तमं पर्व । अस्माकमत्र वसतां विभ्रतां सुखसंपदं । अमी ये दिवसा यांति न तेषां पुनरागमः ॥ ३८ ॥ नदीनां चंडवेगानामायुषो दिवसस्य च । यौवनस्य च सौमित्रे यद्गतं गतमेव तत् ॥ ३९ ॥ नद्या कर्णरवायास्तु परतो रोमहर्षणं । श्रूयते दंडकारण्यं दुर्गमं क्षितिचारिभिः ॥ ४० ।। भारती न विशत्याज्ञा तस्मिन् जनपदोज्झिते । तत्रार्णवतटांच्छ्रत्वा विदध्मः कचिदालयं ॥४१॥ यदाज्ञापयसीत्युक्ते कुमारेण ससंभ्रमं । सुरेंद्रसदृशं भोगं भुक्त्वा ते निर्गतात्रयः ॥ ४२ ॥ अनुगत्य सुदूरं तौ बलोपेतः सुरप्रभः । कृच्छानिवर्तितस्ताभ्यां शोकी पुरमुपागतः ॥ ४३ ॥ एषोऽपि तुंगः परमो महीध्रः । श्रीमनितंबो बहुधानुसानुः ॥ विलंपतीभिः ककुभां समूहं । भासा चकाज्जैनगृहावलीभिः ॥४४॥ रामेण यस्मात्परमाणि तस्मिन् । जैनानि वेश्मानि विधापितानि ॥ निनेष्टवंशाद्रिवचाः स तस्मा-द्रविप्रभो रामगिरिः प्रसिद्धः ॥ ४५ ॥ इत्याचे रविषेणाचार्यप्रोक्ते पद्मपुराणे रामगिर्युपाख्यानं नाम चत्वारिंशत्तमं पर्व । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003655
Book TitlePadmacharitam Part 02
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages446
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy