________________
पद्मपुराणम् ।
एकचत्वारिंशत्तम पर्व। अथैकचत्वारिंशत्तमं पर्व। अथानरण्यनप्तारौ श्रीमंती सीतयान्वितौ । दिदृक्षौ दक्षिणांभोधिमायातां सुखभोगिनौ ॥ १ ॥ पुरग्रामसमाकीर्णानतीत्य विषयान् बहून् । प्रविष्टौ तौ महारण्यं नानामृगसमाकुलं ॥ २ ॥ यस्मिन्न विद्यते पंथा स्थानं नार्यनिषेवितं । पुलिंदानामपि प्रायो दुश्चरं यन्नगाकुलं ॥ ३ ॥ नानावृक्षलताकीर्ण महाविषमगहरं । गुहांधकारगंभीरं वहनिर्झरनिम्नगं ॥ ४ ॥ क्रोशं कोशं शनैस्तत्र गच्छंती जानकीवशात् । निर्भयौ क्रीडनोयुक्तो प्राप्तौ कर्णरवां नदीं ॥५॥ यस्यास्तटानि रम्याणि तृणैर्युक्तानि भूरिभिः । सामान्यायतदेशानि स्पर्श विभ्रति सौख्यदं।।६।। अनत्युच्चैर्घनच्छायैः फलपुष्पविभूषितैः । रेजुस्तटद्रुमैस्तस्याः समीपधरणीधराः ॥७॥ वनमेतदलं चारु नदी चैतौ निरूपितौ । रम्ये तत्र तरुच्छायेनस्थितौ सीतयान्वितौ ॥ ८॥ क्षणं स्थित्वातिरम्याणि सैकतान्यवगाह्य च । जलावगाहनं चक्रुस्ते रम्यक्रीडयोचितं ॥९॥ ततो मृष्टानि पक्कानि फलानि कुसुमानि च । यथेच्छमुपभुक्तानि तैः सुखं कृतसंकथैः ॥ १० ॥ तत्र भांडोपकरणं सकलं केकयीसुतः । मृदावसैः पलाशैश्च विविधैराशु निर्ममे ॥ ११ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org