SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । २१० एकचत्वारिंशत्तमं पर्व | अमीषु स्वादचारूणि फलानि सुरभीनि च । वनजानि च सस्यानि राजपुत्री समस्करोत् ॥ १२ ॥ अन्यदा तिथिवेलायां गगनांगणचारिणौ । प्रभापटलसंवीतविग्रहौ चारुदर्शनौ ॥ १३ ॥ ज्ञानत्रितयसंपन्नौ महाव्रतपरिग्रहौ । परेण तपसा युक्तौ दुस्पृहामुक्तमनसौ ॥ १४ ॥ मासोपवासिनौ वीरौ गुण्यौ शुभसमीहितौ । यच्छंतौ नयनानंदौ बुधचंद्रमसाविव ॥ १५ ॥ मुनी सुगुप्तगुप्ताख्यवायांतौ सम्मुखं भुवा । यथोक्ताचारसंपन्नौ सहसा सीतयेक्षितौ ॥ १६ ॥ ततः प्रमदसंभारविकसन्नेव शोभया । दयिताय तया ख्यातमिति रोमांचितांगया ।। १७ ।। पश्य पश्य नरश्रेष्ठ तपसा कृशविग्रहं । दैगंबरं परिश्रांतं भदंतयुगलं शुभं ॥ १८ ॥ क तक्क तत्प्रिये साध्वि पंडिते चारुदर्शने । निर्ग्रथयुगलं दृष्टं भवत्या गुणमंडने ॥ १९ ॥ निरीक्ष्य वरारोहे सुचिरं पापमर्जितं । क्षणात्प्रणाशमायाति जनानां भक्तचेतसां ॥ २० ॥ इत्युक्ते रघुचंद्रेण सीतोवाच ससंभ्रमा । इमाविमाविति प्रीत्या स तदाभूत्समाकुलः ॥ २१ ॥ ततो युगमितक्षोणीदेश विन्यस्तलोचनौ । मुनी प्रशांतगमनौ सुसमाहितविग्रहौ ।। २२ ।। अभ्युत्थानाभियानाभिस्तुष्टः प्रणमनादिभिः । दंपतीभ्यां कृतावेतौ पुण्यनिर्झरपर्वतौ ॥ २३ ॥ शुच्यंगया च वैदेह्या महाश्रद्धापरीतया । परिविष्टं तयोः श्राद्धं रमणेन समेतया ॥ २४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003655
Book TitlePadmacharitam Part 02
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages446
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy