SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । २०७ चत्वारिंशत्तम पर्व। नानाभूषणयुक्तांगौ सुमाल्यांबरधारिणौ । यथेप्सितकृताहारौ श्रिया परमयान्वितौ ॥ २५ ॥ सीता चाक्लिष्टसौभाग्या दुरितासंगवर्जिता । रमते तत्र चेष्टाभिः शास्त्रदृष्टाभिरुज्वलं ॥२६॥ तत्र वंशगिरौ राजं रामेण जगदिंदुना । निमापितानि चैत्यानि जिनेशानां सहस्रशः ॥ २७ ॥ महावष्टंभसुस्तंभा युक्तविस्तारतुंगताः । गवाक्षहम्मेवलभीप्रभृत्याकारशोभिताः ॥ २८ ॥ सतोरणमहाद्वारा सशालाः परिखान्विताः । सितचारुपताकाढ्या वृहद्वंटारवाचिताः ॥ २९ ॥ मृदंगवंशमुरजसंगीतोत्तमनिस्वनाः । झर्झरैरानकैः शंखभेरीभिश्च महारवाः ॥ ३० ॥ सततारध्वनिः शेषरम्यवस्तुमहोत्सवाः । विरेजुस्तत्र रामीया जिनप्रासादपंक्तयः ॥ ३१॥ रजिरे प्रतिमास्तत्र सर्वलोकनमस्कृताः । पंचवर्णा जिनेंद्राणां सर्वलक्षणभूषिताः ॥ ३२ ॥ अन्यदाथ महीपालरामो राजीवलोचनः । लक्ष्मीधरमुवाचेदं क्रियते किमतः परं ॥ ३३ ॥ इह संप्रेरितः कालः सुखेन परमे गिरौ । जिन चैत्यसमुत्थानाः स्थापिता कीर्तिरुज्वला ॥३४॥ अनेन भूभृता श्रेष्ठरुपचारशतैर्हता । अत्रैव हृदि तिष्ठामस्तदा कार्य विनश्यति ॥ ३५ ॥ इह तावदलं भोगौरिति चिंतयतोपि मे । न मुंचति क्षणमपि प्रवरो भोगसंततिः ॥ ३६॥ इह यत्क्रियते कर्म तत्परत्रोपभुज्यते । पुराकतानां पुण्यानां इह संपद्यते फलं ॥ ३७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003655
Book TitlePadmacharitam Part 02
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages446
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy