SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ २०६ पद्मपुराणम् । चत्वारिंशत्तम पर्व। किंकणीजालयुक्तानि मुक्तादामशतानि च । चामराणि विचित्राणि लंबूपमणिपट्टिका ॥१२॥ दर्पणा वुवुदावल्यो विस्कुरद्भास्करांशवः । न्यस्तान्येतानि तुंगेषु तोरणेषु ध्वजेषु च ॥ १३ ॥ अवनौ पूर्णकलशाः स्थापिता विधिसंयुताः । हंसा इव निविष्टास्ते विरेजुर्नलिनीवने ॥ १४ ॥ यत्र यत्र पदन्यासं करोति रघुनंदनः । तत्र तत्रोरुपमानि स्थापितानि महीतले ॥ १५ ॥ शयनान्यासनैः साकं रचितानि यतस्ततः । मणिकांचनचित्राणि सुखस्पर्शधराण्यलं ॥ १६ ॥ सलवंगादितांबूलं प्रवराण्यंशुकानि च । महासुंगधयो गंधा भास्वंत्याभरणानि च ॥ १७ ॥ सूदगेहसमेतानि कंदुशालाशतानि च । बहुभेदान्नपूर्णानि कृतयत्नानि सर्वतः ॥ १८ ॥ गुडेन सर्पिषा दना भूः कचिद्भाति पंकिला | इतिकर्तव्यताभाजा जनेनादरिणान्विता ॥ १९ ॥ स्वाहारेण कचित्तृप्ता पथिकाः स्वेच्छया स्थिता । प्रसादयंति विश्रब्धा संकथाबद्धगुल्मकाः २० कचिन्ना शेखरी भाति मदिरामत्तलोचनः । कचित्सीमंतिनी मत्ता वकुलामोदवाहिनी ॥२१॥ कचिन्नाव्यं कचिद्गीतं कचित्सुकृतसंकथा । कचित्कांतैः समं नार्यो रमंते चारुविभ्रमाः ।। २२ ॥ दत्तखा कचित्स्मेरैः सलीलैर्विटपुंगवः । विलासिन्यो विराजते गीर्वाणगणिकोपमाः॥ २३ ॥ रामलक्ष्मणयोर्यानि रचितानि ससीतयोः । क्रीड़ाधामानि कस्तानि नरो वर्णयितुं क्षमः ॥२४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003655
Book TitlePadmacharitam Part 02
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages446
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy