SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । २०५ अथ चत्वारिंशत्तमं पर्व । श्रुत्वा केवलिनः पद्मत्यविग्रहधारिणं । स्तुत्वा सजयनिस्वानं प्रणेमुः सर्वपार्थिवाः ॥ १ ॥ वंशस्थलपुरेशश्च महाचित्तः सुरप्रभः । सलक्ष्मणं सपत्नीकं पद्मनाभमपूजयत् ॥ २ ॥ प्रासादशिखरच्छाया धवली कृतपुष्करं । नावृणोन्नगरं गंतुं रामो राज्ञापि याचितः ॥ ३ ॥ वंशादिशिखिरे रम्ये हिमवच्छिशिरोपमे । समविस्तीर्ण सद्वर्णरमणीयशिलातले ॥ ४ ॥ नानावृक्षलताकीर्णे नानाशकुनिनादिते । सुगंधानिलसंपूर्णे नानापुष्पफलाकुले ।। ५ ।। पद्मोत्पलवनाढ्याभिर्वापीभिरतिशोभिते । सर्वर्तुसहितोद्युक्ते वसंतत सेवने ॥ ६ ॥ सर्जिता परमा भूमिः शुद्धादर्शतलोपमा । दशार्धवर्णरजसा कल्पितानेकभक्तिका ॥ ७ ॥ कुंदातिमुक्तिकलता वकुला कमलानि च । यूथिका मल्लिका नागा अशोकाचारुपल्लवाः || ८ || एते चान्ये च भूयांसश्चारुभासः सुगंधयः । भावारम्यविलासाभिः प्रमदाभिः प्रकल्पिता ॥ ९ ॥ ववा परिकरं पुंभिः सुविदग्धैः सुसंभ्रमैः । मंगलालापसंपन्नैः स्वाभिभक्तिपरायणैः ॥ १० ॥ harista त्राणि नानाचित्रधराणि च । प्रसारितानि रुद्राणि वैजयंतीशतानि च ॥ ११ ॥ 1 Jain Education International चत्वारिंशत्तम पर्व | For Private & Personal Use Only www.jainelibrary.org
SR No.003655
Book TitlePadmacharitam Part 02
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages446
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy