________________
पद्मपुराणम् ।
२४
अष्टाविंशतितम पर्व।
अदुष्टमानसः पश्यन् यातो रूपदिदृक्षया । रामानुरागतः प्रापमवस्था मृत्युगोचरां ॥ १६ ॥ अहो प्रौदकुमार्यास्तचेष्टितं दुष्टविभ्रमं । गृहीतोऽस्मि नयेनैष कृतांतसदृशैर्नरैः ॥१७॥ क्व मे पापाधुना याति व्यसने पातयामि तां । नृत्याम्यातोद्यमुक्तोऽपि किमुतातोद्यसंयतः॥१८॥ विचिंत्यैवं द्रुतं गत्वा नगरं रथनूपुरं । सीतारूपं पटे न्यस्य प्रत्यक्षमिव सुंदरं ॥ १९ ॥ चकारोपवने चंद्रगते क्रीडनसमनि । उत्सत्य च वहिस्तस्थौ पुरस्याप्रकटात्मकः ॥ २० ॥ अन्यदाथ तमुद्देशं कुमारबहुभिः समं । भामंडलकुमारोसौ रममाणः समाययौ ।। २१ ॥ तत्राज्ञानात्समालोक्य स्वसारं चित्रगोचरं । ह्रीश्रुतिस्मृतिमुक्तात्मा द्राक् प्रभामंडलोऽभवत् २२ ततः शोचति निश्वासान्मुंचतेत्यंतमायतान् । शुष्यति क्षिपति सस्तं गात्रं यत्र क्वचिद्रुतं ॥२३॥ न रात्रौ न दिवा निद्रां लभते ध्यानतत्परः । उपचारेण कांतेन न जातु सुखमश्नुते ॥ २४ ॥ पुष्पाणि गंधमाहारं दृष्टि श्वेडं यथा भृशं । करोति लोठन भूयः संतापी जल कुहि मे ॥ २५ ॥ मौनमाचरति स्मित्वा करोति च कथां मुहुः । सहसोत्तिष्ठति व्यर्थ याति भूयो निवर्तते ॥२६॥ ततो गृहगृहीतस्य सदृशैस्तैर्विचेष्टितैः । ज्ञातं तदातुरत्वस्य कारणं मतिशालिभिः ॥ २७ ॥ जगदुश्चैवमन्यान्यं कन्येयं केन चित्रिताः । पटोत्र निहितो गेहे स्याद्वा नारदचेष्टितं ॥ २८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org