________________
पंडापुराणम् ।
अष्टाविंशतितमं पर्व।
अर्चितयच्च पश्यामि कन्यां तामद्य कीदृशीं । शोभनैर्लक्षणैर्येन रामस्य परिकल्पिता ॥ ३ ॥ पद्मगर्भदलं यस्मिन् कृत्वा स्तनतटे रहः । मत्कांत्या सदृशा नेदमिति बुद्धयावलोकते ॥ ४ ॥ समये नारदस्तस्मिन् सीतालोकनलालसः । विशुद्धहृदयः प्रापदारुरोह च तद्गृहं ॥ ५ ॥ ततो दर्पणसंक्रांतं जटामुकुटभीषणं । नारदीयं वपुर्वीक्ष्य कन्या त्राससमाकुला ॥ ६ ॥ हा मातः कोयमत्रेति कृत्वा प्रस्खलितं स्वनं । विवेश गर्भभवनं वेपमानशरीरिका ॥ ७ ॥ नारदोऽनुपदं तस्याविशन्नतिकुतूहल: । नारीभिर्द्वारपालीभिः सावष्टुंभमरुध्यत ॥ ८ ॥ यावत्तस्य च तासां च कलहो वर्तते महान् । तावच्छब्देन संप्रापुर्नराः खड्गधनुर्धराः ॥ ९॥ गृह्यतां गृह्यतां को कोयमित्युद्धत्वस्वनाः । कुंचितोष्ठान्नरान् दृष्ट्वा सशस्त्रान् हंतुमुद्यतान् ॥ १० ॥ नारदः परमं विभ्रद्भयमुत्कटवेपथुः । ऊर्ध्वरोमा खमुत्पत्य विश्रांतोष्टापदाचले ॥ ११ ॥ अर्चितयच्च हा कष्टं प्राप्तोऽस्मि जननं पुनः । निष्क्रांतोऽस्मि महादावात्पक्षी ज्वालाहतो यथा १२ शनैः शनैस्ततः कंपं तद्दिग्न्यस्तेक्षणोऽमुचत् । समार्ज च ललाटस्थान् स्वेदबिंदून् स्थवीयसः १३ समादधे स्खलत्पाणिर्जटाभारं समाकुलं । मुहुः स्मृत्वा च निश्वासान्मुमुचे दीर्घवेगिनः || १४ || ततः स्वैरं भयाद्धष्टो दध्यावेवं प्रकोपवान् । निश्चितस्थितशेषांगो मूर्धानं कंपयन्मनाम् ॥ १५ ॥
Jain Education International
२३
For Private & Personal Use Only
www.jainelibrary.org