________________
पद्मपुराणम् ।
अष्टाविंशतितमं पर्व। ततः श्रुत्वा कुमार तमाकुलं स्वन कर्मणा। नारदत्तस्य बंधनां विस्रब्धो दर्शनं ददौ ॥ २९ ॥ आदरेण च तैः पृष्टः कृतपूजानमस्कृतिः । मुने कथय कन्येयं दृष्टा क्य भवतेदृशी ॥ ३० ॥ महोरगांगना किं स्याद्भवेत्किंवा विमानजा । मर्त्यलोकं समायाता त्वया दृष्टा कथंचन ॥३१॥ अवद्धारस्ततोऽवोचद्विनयं परमं महत् । भूयो भूयः स्वयं गच्छद्विस्मयं कंपयन् शिरः ॥ ३२ ॥ अस्त्यत्र मिथिला नाम पुरी परमसुंदरी । इंद्रकेतोःस्तुतस्तत्र जनको नाम पार्थिवः ॥ ३३ ॥ विदेहेति प्रिया तस्य मनोबंधनकारिणी । गोत्र सर्वस्वभूतेयं सीतेति दुहिता तयोः ॥ ३४ ॥ निवेद्यैवमसौ तेभ्यः कुमारं पुनरुक्तवान् । बाल मा याः विषादं त्वं तवेयं सुलभैव हि ।। ३५॥ रूपमात्रेण यातोसि किमस्या भावमीदृशं । ये तस्या विभ्रमा भद्र ! कस्तां वर्णयितुं क्षमः ३६ तया चित्तं समाकृष्टं तवेति किमिहाद्भुतं । धHध्याने दृढं बद्धं मुनीनामपि सा हरेत् ॥ ३७ ॥ आकारमात्रमत्रतत्तस्या न्यस्तं मया पटे । लावण्यं यत्तु तत्तस्या तस्यामेवैतदीदृशं ॥ ३८ ॥ नवयौवनसंभूतकांतिसागरवीचिषु । सा तिष्ठति तरंतीव संसक्तास्तनकुंभयोः ॥ ३९ ॥ तस्या श्रोणी वरारोहा कांतिसंप्लावितांशुका । वीक्षितोन्मूलयत्स्वांत समूलमपि योगिनां ॥४०॥ मुक्त्वा भवंतमन्यस्य सेयं कस्योचिता भवेत् । यत्नं वस्तुनि कुर्वन्नाजायतां योग्यसंगमः ॥४१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org