________________
पद्मपुराणम् ।
त्रिषष्टितम पर्व ।
त्रिषष्टितमं पर्व।
ततः समाकुलस्वान्तः पद्मः शोकेन ताडितः । परिप्राप्तस्तमुद्देशं यत्र तिष्ठति लक्ष्मणः ॥१॥ निर्विचेष्टं तमालोक्य क्षितिमंडलमंडनम् । शक्त्याऽऽलिंगितवक्षस्कं पद्मो मूर्छामुपागतः ॥२॥ संप्राप्य च चिरात्संज्ञा महाशोकसमन्वितः । दुःखाग्निदीपितोऽत्यन्तं विप्रलापमसेवत ॥ ३ ॥ हा वत्स विधियोगेन महादुर्लङ्घयमर्णवम् । उत्तीर्य संगतोऽस्येतामवस्थामतिदारुणाम् ॥४॥ अयि मद्भक्तिसन्चेष्टो मदर्थ सततोद्यत । क्षिप्रं प्रयच्छ मे वाचं किं मोनैनावतिष्ठसे ॥५॥ जानास्येव वियोगं ते मुहूर्तमपि नो सहे । कुर्वालिंगनमुत्तिष्ठ क गतोऽसौ तवादरः ॥६॥ अद्य केयूरदष्टौ मे भुजावेतौ महायतौ । भावमात्रकरौ जातौ निष्क्रियौ निष्प्रयोजनौ ॥७॥ निक्षेपो गुरुभिस्त्वं मे प्रयत्नेन समाप्तिः । गत्वा किमुत्तरं तेभ्यो दास्यामि त्रपयोज्झितः ॥८॥ क सौमित्रिः क सौमित्रिरिति गाढं समुत्सुकः । लोकोऽपि सहि समस्तो मे प्रेक्ष्यति प्रेमनिर्भरः॥ रत्नं पुरुषवीराणां हारयित्वा त्वकामहम् । मन्ये जीवितमात्मीयं हतं निहतपौरुषः॥१०॥ दुष्कृतस्योदयस्थस्य रचितस्य भवान्तरे । फलमेतन्मया प्राप्तं सीतया मे किमन्यथा ॥११॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org