________________
पद्मपुराणम् ।
पंचचत्वारिंशत्तम पर्व । विश्रब्धचेससोर्यावत् कथेयं वर्त्तते तयोः । तावन्महाबलोपेतः परिप्राप्तो विराधितः ॥ ४४ ॥ ततो जयजयस्वानं कृत्वा विरचिताञ्जलिः । जगाद खेचरस्वामी प्रणतः सचिवैः समम् ॥४५॥ स्वामी त्वं परमोऽस्माभिश्चिरात्प्राप्तो नरोत्तमः। अतः प्रदीयतामाज्ञा नाथ कर्तव्यवस्तुनि ॥४६॥ इत्युक्तो लक्ष्मणोऽभाणीत् साधो शृणु सुवर्तनम् । गुरोः केनापि मे पत्नी हृता दुर्नयवर्तिना॥४७॥ तया विरहितः सोऽयं पद्मः शोकवशीकृतः । यदि नाम त्यजेत्प्राणांस्तावद्वहिं विशाम्यहम् ॥४८॥ एतत्प्राणदृढ़ासक्ता भद्र प्राणानवैहि मे । ततोऽत्र प्रकृते किंचित्कर्तव्यं कारणं परम् ॥ ४९ ॥ ततो नताननः किंचित्खगप्रभुरचिंतयत् । कृत्वापि श्रममेतं मे कष्टमाशा न पूरिता ॥ ५० ॥ सुखं संवसता स्वेष्टं नानावनविहारिणा । पश्यात्मा योजितः कष्टे कथं संशयगहरे ॥५१॥ दुःखार्णवतटं प्राप्तो यां यां गृह्णाम्यहं लताम् । देवेनोन्मूल्यते सा सा कृत्स्नं विधिवशं जगत् ५२ तथाप्युत्साहमावृत्य कर्तव्यं समुपागतम् । करोमि कुवेतो भद्रमभद्रं वा स्वकर्मजम् ॥ ५३॥ इति ध्यात्वा वहीरूपं भजमु(न्नु)त्साहसंस्तुतम् । जगाद सविवान् धीरो वचसा स्फुटतेजसा ५४ पत्नी महानरस्यास्य नीता यदि महीतलम् । अथाकाशं गिरि वारि स्थलं वा विपिनं पुरं ॥५५॥ गवेषयतो यत्नेन सर्वाशा सुसमं ततः । यदिच्छितकृतार्थानां तद्दास्यामि महाभटाः ॥ ५६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org