________________
पद्मपुराणम्।
२५९
पंचचत्वारिंशत्तम पर्व ।
दत्वा विराधितायाथ तलं खरदूषणम् । प्रययौ लक्ष्मणः प्रीतः प्रदेशं पद्मसंश्रितम् ॥ ३१ ॥ यावत्पश्यति तं सुप्तं भूमौ सीताविवर्जितम् । जगौ चोत्तिष्ठ किं नाथ याता क वद जानकी ३२ उत्थाय सहसा दृष्ट्वा लक्ष्मणं नित्रणांगकम् । किंचित्प्रमोदमायातः परिष्वजनतत्परः ॥ ३३ ॥ जगाद भद्र नो वेद्मि देवी केनापि किं हृता । उत सिंहेन निर्भुक्ता न दृष्टात्र गवेषिता ॥३४॥ पातालं किं भवेनीता नभः शिखरमेव वा । उद्वेगेन विलीना वा सुकुमारशरीरिका ॥ ३५ ॥ ततः क्रोधपरीतांगो विषादी लक्ष्मणोऽगदत् । देवोद्वेगानुवन्धेन न किंचिदपि कारणम् ॥३६ ॥ नूनं दैत्येन केनापि हृता केनापि जानकी । ध्रियमाणामिमां लप्स्ये कर्तव्योऽत्र न संशयः॥३७॥ परिसांत्वोत्तमैर्वाक्यैर्विविधैः श्रुतिपेशलैः । विमलेनांभसा तस्य मुखं प्रक्षालयन् सुधीः ॥ ३८ ॥ श्रुत्वा तावदलं तारं शब्दमुत्तानिताननः । अपृच्छत् श्रीधरं रामः संभ्रमं किंचिदापयन् ॥ ३९ ॥ किमेषा नर्दति क्षोणी गगनाकिमयं ध्वनिः । किं कृतं भवता पूर्व शत्रुशेष मयोज्झितम् ॥४०॥ सुमित्राजस्ततोऽवोचनाथोऽत्र हि महाहवे । उपकारो महान्काले खेचरेण कृतो मम ॥४१॥ चन्द्रोदरसुतः सोऽयं विराधित इति श्रुतः । प्रस्रवे दैवतेनैष हितेन परिढौकितः ॥ ४२ ॥ चतुर्विधेन महता बलेनास्य सुचेतसः । आगच्छतो महानेषः शब्दः श्रुतिमुपागतः॥४३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org