________________
पद्मपुराणम् ।
पंचचत्वारिंशत्तमं पर्व ।
अद्य ते निशितैर्वाणैर्जीवितं नाशयाम्यहम् । कृत्वा तथाविधं कर्म्म फलं तस्यानुभूयताम् ॥ १८ ॥ अत्यन्तक्षुद्र निर्लज्ज परस्त्रीसंगलोलुप | ममाभिमुखतां गत्वा परलोकं व्रजाधुना ॥ १९ ॥ ततस्तैः परुषैर्वाक्यैः समुद्दीपितमानसः । उवाच लक्ष्मणो वाचं पूरयन् सकलं नभः ॥ २० ॥ किं वृथा गर्जसि क्षुद्र दुःखे वर शुना समः । अहं नयामि तत्र त्वां यत्र ते तनयो गतः ॥२१॥ इत्युक्त्वावस्थितं व्योम्नि विरथं खरदूषणम् । चकार लक्ष्मणः छिन्नचापकेतुं च निःप्रभम् २२ ततोऽसौ पतितः क्षोण्यां नभस्तः क्रोधलोहितः । प्रक्षीणेष्विव पुण्येषु ग्रहस्तरलविग्रहः ॥ २३ ॥ खड्गांशुलीन देहश्च सौमित्रिं प्रत्यधावत । असिरत्नं समाकृष्य सोप्यस्याभिमुखं ययौ ॥ २४ ॥ इत्यासन्नं तयोरासीच्चित्रयुद्धं भयानकम् । मुमुचुः स्वस्थिता देवाः सपुष्पान् साधुनिश्वनान् ||२५|| तावच्छिसि संक्रुद्धो दूषणस्य न्यपातयत् । सूर्यहासं यथार्थाख्यं लक्ष्मणोऽक्षतविग्रहः ॥ २६ ॥ निर्जीवः पतितः क्षोण्यां बभूव खरदूषणः । आलेख्यरविसंकाशो यद्वत्स्वर्गच्युतो महः ॥ २७ ॥ अथवा दयितो रत्या निश्रेष्टीभूतविग्रहः । रत्नपर्वतखंडो वा दिग्गजेन निपातितः ।। २८ ।। अथ सेनापतिर्नाम्ना दूषणः खरदूषणः । विरथं कर्तुमारेभे चन्द्रोदरनृपात्मजम् ॥ २९ ॥ लक्ष्मणेनेषुणा तावद्गाढं कर्म्मणि ताड़ितः । घूर्णमानो गतो भूमिं समाश्वासनमाध्नुतः ॥ ३० ॥
1
Jain Education International
२५८
For Private & Personal Use Only
www.jainelibrary.org