SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ पह्मपुराणम्। अष्टाविंशतितमं पर्व। परिशांत्य सुतं कांतां रहश्चंद्रायणोऽवदत् । प्रमोदं च विषादं च विस्मयं च वहन्निदं ॥ ५५ ॥ आर्ये विद्याभूतां कन्याः संत्यज्य प्रतिमोज्झिताः । भूगोचराभिसंबंधः कथमस्मासु युज्यते ५६ क्ष्मागोचरस्य निलयं गंतुं वा युज्यते कथं । यदा वा तेन नो दत्ता मुखच्छाया तदातु का ५७ तस्मात्केनाप्युपायेन कन्यायाः पितरं प्रियं । इहैव नययाम्याशु नान्यः पंथा विराजते ॥५८॥ नाथ युक्तमयुक्तं वा त्वमेव ननु मन्यते । तथापि तावकं वाक्यं ममापि हृदयंगमं ॥ ५९॥ ततश्चपलवेगाख्यं भृत्यमाहूय सादरं । कर्णजापेन विज्ञातवृत्तांतमकरोन्नृपः ॥ ६ ॥ आज्ञादानेन तुष्टोसौ मिथिलां त्वरितो ययौ । हृष्टहंसयुवामोदसूचितामिव पद्मिनीं ॥ ६१॥ अवतीयांवराच्चारुसप्तिवेषमुपाश्रितः । वित्रासयितुमुद्युक्तो गीमहिषश्ववारणान् ।। ६२॥ देशघाते यथा यातः समाकंदस्तदापरः । शुश्राव च जनौधेभ्यो जनकस्तद्विचेष्टितं ॥ ६३ ॥ निर्ययौ च पुरायुक्तः प्रमोदोद्वेगकौतुकैः । ईक्षांचक्रे च तं सप्ति नवयौवनसंगतं ॥ ६४ ॥ उदमानं मनोयोगं भास्वत्प्रवरलक्षणं । प्रदक्षिणमहावर्त तनुवक्त्रोदरं बलं ॥६५॥ सुशफामृदंगानां कुर्वाणमिव ताडनं । पृथग्जनेर्दुरारोहं दधतं प्रोथुवेपथु ॥ ६६ ॥ ततः शुद्धः प्रमोदः सन् जगाद जनको मुहुः । ज्ञायतामेष कस्याश्वः प्राप्तो निदोमतामिति ६७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003655
Book TitlePadmacharitam Part 02
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages446
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy