________________
पद्मपुराणम् ।
षट्चत्वारिंशत्तमं पर्व ।
धर्मरत्नोपमं द्वीपं प्राप्तः शून्यमनस्करः । कथं व्रजसि विज्ञानी गुणसंग्रहकोविदः ॥ ६४ ॥ इत्युक्तेन मया देवि प्रणम्य मुनिपुंगवम् । देवासुरमहर्षीणां प्रत्यक्षमिति भाषितम् ॥ ६५ ॥ यावनेच्छति मां नारी परकीया मनस्वनी । प्रसभं सा मया तावन्नाभिगम्यापि दुःखिना ॥ ६६ ॥ एतच्चाप्यभिमानेन गृहीतं दयिते व्रतम् । का मां किल समालोक्य साध्वी मानं करिष्यति ॥ ६७॥ अतो न तां स्वयं देवि गृह्णामि सुमनोहराम् । सकृज्जल्पन्ति राजानः प्रत्यवायोऽन्यथा महान् ६८ यावन्चामि नो प्राणान् तावत्सीता प्रसाद्यताम् । भस्मभावं गते गेहे कूपखानश्रमो वृथा || ६९ || ततस्तं तादृशं ज्ञात्वा संजातकरुणोदया । वभाण रमणी नाथ स्वल्पमेतत्समीहितम् ॥ ७० ॥ ततः किंचिन्मधुस्वादविलासवशवर्तिनी । सा देवरमणोद्यानं जगाम कमलेक्षणा ॥ ७१ ॥ तदाज्ञां प्राप्य संपद्भिरष्टदशमहौजसाम् । दशाननवरस्त्रीणां सहस्राण्यनुवव्रजुः ॥ ७२ ॥ मन्दोदरी क्रमात्प्राप्य सीतामेवमभाषत । समस्तनयविज्ञानकृतमण्डनमानसा ॥ ७३ ॥ अयि सुंदरि हर्षस्य स्थाने कस्माद्विषीदसि । त्रैलोक्येऽपि हि सा धन्या पतिर्यस्या दशाननः ॥ ७४ ॥ सर्वविद्याधराधीशं पराजितसुराधिपम् । त्रैलोक्यसुन्दरं कस्मात्पतिं नेच्छसि रावणम् ॥ ७५ ॥ निःस्वःक्ष्मागोचरः कोऽपि तस्यार्थे दुःखितासि किम् ।
Jain Education International
२७०
For Private & Personal Use Only
www.jainelibrary.org