________________
पद्मपुराणम् ।
त्रिपंचाशतं पर्व | अन्तरेण प्रभोराज्ञां गमनं मे न युज्यते । इत्यवस्थां गता दास्ये तस्मै किमहमुत्तरम् || १४६ ।। प्रत्येति नाधुना लोकः शुद्धि मे मृत्युना विना । नाथ एव ततः कृत्यं मम ज्ञास्यति सांप्रतम् ॥ यावन्नोपद्रवः कचिज्जायते दशवक्त्रकात् । तावद्वज द्रुतं भ्रातर्मालम्बनमिह क्षणम् ॥ १४८ ॥ त्वया मद्वचनाद्वाच्यः सम्यक् प्राणमहेश्वरः । अभिधानैरिमैर्मूर्ध्नि निधाय करकुड्मलम् ॥ १४९ ॥ तस्मिन् देव मया सार्द्ध मुनयो व्योमचारिणः । वंदिताः परमं भक्त्या त्वया स्तवनकारिणा १५० विमलांभसि पद्मिन्या नितरामुपशोभिते । सरसि क्रीड़तां स्वेच्छमस्माकमतिसुन्दरम् ।। १५१ ।। आरण्यकस्तदा हस्ती समायातो भयंकरः । ततो मया समाहृतस्त्वमुन्मग्नो जलान्तरात् ॥ १५२ ॥ उदामोsसौ महानागश्चाक्रीडनकारिणा । समस्तं त्याजितो दर्पं भवता निश्रलीकृतः ।। १५३ ।। आसीच्च नन्दनच्छाये वने पुष्पभरानते । शाखां पल्लवलोभेन नमयन्ती प्रयासिनी ॥ १५४ ॥ भ्रमद्भिश्चंचलैर्भृगैरतिभूता ससंभ्रमा । भुजाभ्यां भवताश्लिष्य जनिताकुलतोज्झिता ।। १५५ ॥ उद्यन्तमन्यदा भानुं माहेन्द्रीदिग्विभूषणम् । अहमं भोजखण्डस्य त्वया सह तटे स्थिता ॥ १५६ ॥ अशंसिषं ततः किंचिदीर्षारसमुपेयुषा । बालेनोत्पलनालेन मधुरं ताडिता त्वया ॥ १५७ ॥ अन्यदा रतिशैलस्य प्राग्भारस्य मया प्रियः । पृष्टस्त्वमिति विभ्रत्या कौतुकं परशोभया ।। १५८॥
Jain Education International
३५२
For Private & Personal Use Only
www.jainelibrary.org