________________
पद्मपुराणम् ।
३५३
त्रिपञ्चाशत्तमं पर्व | एतस्मिन्कुसुमैः पूर्णा विपुला स्निग्धताजुषः । किन्नामानो द्रुमा नाथ मनोहरणकोविदाः ।। १५९ ।। ततस्त्वयेति पृष्टेन प्रसन्नमुखशोभिना । आख्यातमिति देव्येते यथा नन्दिद्रुमा इति ॥ १६० ॥ कर्णकुण्डलनद्याश्च स्थितास्तीरे वयं यदा । तदा सन्निहितौ जातौ मध्याह्ने व्योमगौ मुनी ॥ १६९ ॥ त्वया मया च भिक्षार्थं तयोरागतयोस्ततः । अभ्युच्छायमहाश्राद्धं रचितं पूजनं महत् ॥ १६२ ॥ अन्नं च परमं ताभ्यां दत्तं विधिसमन्वितम् | पंच चातिशया जातास्त्वत्प्रभावेन सुन्दराः १६३ पात्रदानमहोदानं महादानमिति ध्वनिः । अंतरिक्षे मरैश्चक्रे साधु सम्यग्ध्वनिश्रितः ॥ १६४ ॥ अदृष्टतनुभिर्देवैर्दुन्दुभिः सध्वनिः कृतः । पपात गगनाद्दृष्टि: कौसुमी भृंगतादिता ॥ १६५ ॥ सुखसीतो ववौ वायुः सुगंधी नीरजो मृदुः । मणिरत्नसुवर्णांगा धाराश्रममपूरयत् ॥ १६६ ॥ चूडामणिमिमं चोद्यं दृढप्रत्यकारणम् । दर्शयिष्यसि नाथाय तस्यात्यन्तमयं प्रियः ॥ १६७ ॥ जानामि नाथ ते भावं प्रसादिनमलं मयि । तथापि यत्नतः प्राणाः पाल्याः संगमनाशया १६८ प्रमादाद्भवतो जातो वियोगोऽयं मया सह । सांप्रतं त्वयि यत्नस्थे संगमो नौ विसंशयः १६९ इत्युक्ते रुदतीं सीतां समाश्वास्य प्रयत्नतः । यथाज्ञापयसीत्युक्त्वा निरैत्सीत्तत्प्रदेशतः ॥ १७० ॥ पाण्यंगुलीयकं सीता तदाशक्तशरीरिका । मानसस्य कृताश्वासं मेने पत्युः समागमम् ॥ १७१ ॥
२–२३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org