________________
पद्मपुराणम्।
३५४
त्रिपञ्चाशत्तम पर्व। अथोद्यानगता नार्यस्वस्तसारंगलोचनाः । वायुनंदनमालोक्य स्मितविस्मितसंगताः ।। १७२ ।। परस्परं समालापमिति कर्तुं समुद्यताः । अस्य पुष्पनगस्योड़े कोऽप्यहो नरपुंगवः ।। १७३ ॥ अवतीर्णः किमेषः स्याद्विग्रही कुसुमायुधः । देवः कोऽपि तु शैलस्य शोभा दृष्टुं समागतः १७४ तासामाकुलिका काचिनिधाय शिरसि स्रजम् । उपवीणनमारेभे कतु किंनरनिस्वना ॥ १७५ ॥ काचिदिन्दुमुखी वामे हस्तेऽवस्थाप्य दर्पणम् । दिदृक्षन्ती समालोक्य तं बभूवान्यथामनाः १७६ ईषत्काचिदभिज्ञाय वधूरिदमचिन्तयत् । अलब्धद्वारसन्मानः कुतो मारुतिरागतः ॥ १७७ ॥ वरस्त्रीजनमुद्याने कृत्वा संभ्रान्तमानसम् । हारमाल्यांबरधरो भास्वान् वह्निकुमारवत् ॥ १७८ ॥ निसर्गकान्तया गत्या प्रदेशं किंचिदभ्यगात् । तथाविधां च तो वार्तामशृणोद्राक्षसाधिपः ॥१७९॥ क्रोधसंस्पृष्टचित्तेन निरपेक्षत्वमीयुषा । तावदाज्ञापिताः शूरा रावणेनोग्रकिंकराः ॥ १८० ॥ विचारेण न वः कृत्यं पुष्पोद्यानानिरेति यः। मद्रोही कोऽप्ययं क्षिप्रं नीयतामन्तमायुषः १८१ अमी ततः समागत्य दध्युर्विस्मयमागताः । किमिंद्रजिन्नरेशः स्याद्भास्करः श्रवणोऽथवा १८२ पश्यामस्तावदित्युक्त्वा तैरित्युक्तं समंततः । भो भो श्रृणुत निःशेषा उद्यानस्याभिरक्षकाः ॥१८३॥ किं तिष्ठत सुविश्रब्धाः किंकराः कृतितां श्रिताः। किमिति श्रुतमस्माभिः कथ्यमानमिदं वहिः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org